________________
१७९
स्त्रीविरसतायामगडदत्तकथा तादृगाविष्कृतस्नेहा, प्राणेभ्योऽपि प्रिया च या । तस्या अपीदृशं हन्त, चेष्टितं शिष्टगर्हितम् ॥५९०॥ वशाः स्यु! वशा दानान्न मानान्न पराक्रमात् । न कलाभ्यो न गुणेभ्यो, न स्नेहान्न कुलादपि ॥५९१।। रुदतीभिर्हसन्तीभिः, सुदतीभिर्बुधा अपि । के के न हि प्रतार्यन्ते, पिकीभिः काकवत् क्षितौ ॥५९२॥ सन्ध्यावत् क्षणरागिण्यो, नीचगा जलपूरवत् । व्यालीव कुटिला वा, नार्यो नरककारणम् ॥५९३।। इमां वाममतिर्वामामत्यर्थं वामचेष्टिताम् । स्वर्वामलोचनातुल्यां, धिक् सकामो व्यचिन्तयम् ॥५९४॥ इति ध्यायन् विरक्तात्माऽगडदत्तोऽवदत् 'प्रभो ! । यद्वृत्तमेतत् सोऽस्म्येष, युष्मद्भातृविघातकः ॥५९५॥ भृशं बिभेमि नारीभ्यो, भुजङ्गीवदतः परम् । सद्यः प्रसद्य तद्दीक्षां, देहि तद्दमनौषधी[म्] ॥५९६॥ युष्माकमग्रजं हत्वा, यदात्मा मलिनीकृतः । अधुना शोधनीयस्तद्विमलेन तपोऽम्भसा' ॥५९७॥ इति ब्रुवन्नसौ तेन, करुणारससिन्धुना । साधुनाऽदीक्षि निखिलं, साध्वाचारमशिक्षि च ॥५९८॥ यथोदितं च चारित्रं, समाराध्य विरम्य सः । अलब्ध सुगतिं शुद्धभावन्यत्कृतदुष्कृतः ॥५९९।।