________________
१७८
श्रीअजितप्रभुचरितम् सर्गः-२ योषिच्चेतो विदधतो, धातुर्ये ह्यणवश्च्युताः । करिकर्णतडिन्मुख्या, भावास्तैरभवन्ननु ॥५७९॥ हृदयेन धरन्त्यन्यं, पश्यन्त्यन्यं दृशा पुनः । दत्त्वाऽन्यस्मै च वचनं, रमन्तेऽन्येन धिक् स्त्रियः ॥५८०॥ अहो ! यस्याः शुचा चित्यां, प्राविविक्षदसौ रथी । तस्या विश्वासघातित्वमीदृशं धिग् निरीक्ष्यते ॥५८१।। प्रेयस्योऽपि च यद्येवं, विघटन्ते क्षणादपि । ध्रियते प्रेम किं छेकैरितरेषु जनेषु तत् ॥५८२॥ विदुषां युज्यते प्रीतिरकृत्रिमसहोदरे । कल्याणकोटिदानैककल्पद्रौ धर्म एव हि ॥५८३॥ ही वयं शात्रवं भ्रातुर्वृथा हन्तुं समुद्यताः । स्वस्यैव शात्रवान् हन्मो, न मोहमदनादिकान् ॥५८४।। अनादौ च भवे शत्रु-मित्रतां निखिलाङ्गिषु । मिथो गच्छत्सु कः शत्रुः, किं वा मित्रं समर्थ्यते ? ॥५८५।। ध्यात्वेति गुरुसंवेगा, भोगाभोगपराङ्मुखाः । प्रतिपेदिमहे दीक्षां, दृढधृत्यभिधाद् गुरोः ॥५८६।। दृढधर्मा धर्मरुचिधर्मदासश्च सुव्रतः । दृढव्रतो धर्मप्रिय, इत्यस्मान् गुरुराहूतः ॥५८७।। अन्तरङ्गरिपुस्तोमातङ्केनेव ततो वयम् । विहरामः समवेता, एवैते धरणीतले' ॥५८८॥ इति श्रुत्वाऽखिलं वृत्तं, स्वमेवर्षिमुखाद्रथी । ज्ञातस्वकान्तादौरात्म्यो, भवोद्विग्नो व्यचिन्तयत् ॥५८९॥