________________
स्त्रीविरसतायामगडदत्तकथा
१७७
स स्माह 'किमिदं वक्षि ?, पद्माक्षि ! प्राणनाशनम् । ज्ञाता चेद्वल्लभस्तेऽदस्तत् कुतः क्षेममावयोः ?' ॥५६८॥ तयोचे 'भद्र ! मा भीरुसुलभां भीरुतां कृथाः । जानीहि मृतमेवाऽमुं, मद्दयितमसंशयम्' ॥५६९।। रथिरोऽप्याजगामाऽथ, क्षणादेवाऽऽत्तपावकः । अस्माकं सोदरोऽप्याशु, तं दीपं निरवापयत् ॥५७०॥ एतत्तेजः कुतः कान्ते !, प्रससर्पति भाषिणम् । प्रियं प्रत्यवदत् साऽपि, त्वत्करस्थितपावकात् ॥५७१।। सोऽथाऽवक् [तर]वारिं मे, प्रतीच्छ हृदयेश्वरि ! । तिमिरौघविभेदाय, ज्वलयाम्यनलं यथा' ॥५७२।। इत्युक्ता साऽपि निस्त्रिंशं, प्रतीष्याऽऽकृष्य कोशतः । धमन्तमनलं कान्तं, प्रहर्तुं यावदुद्यता ॥५७३।। तावद्विचित्रं स्त्रीवृत्तं, भवोद्वेगनिबन्धनम् । तद्विचारयता बाढं, करुणासार्द्रचेतसा ॥५७४।। भ्रात्रा नस्त्वरितं तस्या, लोलाक्ष्याः पाणिपल्लवात् । आहत्य स्वकरेणोच्चैः, कृपाणः पातितो भुवि ॥५७५।। युग्मम् ॥ प्रिये ! किमिदमित्युक्तवन्तं वल्लभमेषिका । दुर्लीः प्रत्याययन्मोहो, ममाऽभूदिति भाषिणी ॥५७६।। ततो निर्गत्य सोदर्योऽप्यस्माकं तद् दृगीक्षितम् । निखिलं न्यगदत् सर्वेऽप्यथाऽध्यासिष्म मानसे ॥५७७॥ विश्वस्मिन्नपि विश्वेऽस्मिन्नुपायः कोऽपि नास्ति सः । नियन्त्र्यतेतरां येन, चलं चेतो मृगीदृशाम् ॥५७८॥