________________
१७६
श्रीअजितप्रभुचरितम् सर्ग:-२ जनयित्र्या प्रजावत्या, चापि निर्भरदुःखतः । कातरङ्कारमाक्रुष्टास्तं हन्तुं धाविताः पुनः ॥५५८॥ तद्रथाध्वानुसारेण, क्रमात् पुष्पकरण्डिनीम् । ययिमाऽवापिम केऽपि, न पुनस्तद्वधक्षणम् ॥५५९॥ दन्दशूकवदुद्दामाश्छलान्वेषणतत्पराः । ततस्तस्थिम तत्रैव, मन्युदष्टाधराश्चिरम् ॥५६०॥ कदाचित् स वसन्तेऽरिरुद्याने क्रीडितुं ययौ । तं तत्रैकाकिनं हन्तुं, वयमथाऽनुजग्मिम ॥५६१॥ तस्य च क्रीडतः प्राणप्रिया प्रेडोलने रता । दष्टाऽहिना कृपालुभ्यां, खेटाभ्यां द्राक् च सज्जिता ॥५६२।। ततोऽसौ देवतासद्म, पार्श्वस्थं सप्रियोऽविशत् । तन्मध्ये छन्नदीपोऽस्मभ्राता चैकः पुराप्यभूत् ॥५६३।। रथिकोऽपि ततो ध्वान्तभीतामाश्वास्य वल्लभाम् । गतः कृशानुमानेतुमालोककरणेच्छया ॥५६४।। सोऽस्माकं सोदरस्त्वत्रान्तरे छन्नं प्रदीपकम् । आविश्चकार मदनाकारं तं च ददर्श सा ॥५६५।। तस्मिंश्च तन्वती तन्वी, दृशं प्रीतितरङ्गिताम् । अवाप तापमसमं, स्मरसायकबाधिता ॥५६६।। तं बभाण च 'भो भद्र !, त्वदङ्गालिङ्गनोत्सुकम् । ममाऽङ्ग व्यथतेऽत्यर्थं, सुभगाग्य ! प्रसीद तत्' ॥५६७||
१. उज्जयनीम् ।