________________
स्त्रीविरसतायामगडदत्तकथा
१७५
दध्यौ च कटरे सर्वेऽप्यमी धन्या महर्षयः । एषां साधारणाकृत्या, व्यभ्राम्यमहमप्यहो ! ॥५४८॥ नत्वाऽथ विस्मयानन्दभक्तिप्राग्भारपूरितः । तान् पप्रच्छाऽमलं धर्म, शर्मदानैकलग्नकम् ॥५४९।। तेषां ज्येष्ठो व्रतिश्रेष्ठो, दयामूलमनुत्तरम् । अज्ञाप[य]ज्जिनोपज्ञं, धर्मं तं रथिपुङ्गवम् ॥५५०॥ पप्रच्छाऽथ रथी 'पूज्याः !, सदृशी वः किमाकृतिः ?। यौवनेऽपि किमीदृक् च, मतिस्तपसि दुस्तपे ?' ॥५५१॥ अथोवाच कृपावारिराशिर्वाचंयमोत्तमः । 'शृणु विन्ध्यगिरौ पल्ली, विद्यतेऽमृतसुन्दरा ॥५५२॥ अजय्यः क्षत्रवंशाब्धिशशाङ्कोऽर्जुननामकः । भिल्लैः सेव्यक्रमः पल्ली, तां पपौ वरविक्रमः ॥५५३॥ कोऽप्यन्यदा रथी कान्तान्वितः पल्लीं समाययौ । सार्द्धं तेन महायुद्धमकरोत् पल्लिनायकः ॥५५४॥ स पल्लीशं बलाज्जेतुमसमर्थश्छलैकधीः । रथाग्रे स्थापयामास, प्रेयसीं सुभगाकृतिम् ॥५५५।। तद्रूपदर्शनव्यग्रनयनस्तीक्ष्णपत्रिणा ।। हतो मर्मणि तेनाथ, पल्लीशः पञ्चतां ययौ ॥५५६।। तस्याऽनुजा वयं मच, क्षीणन्यक्षपराक्रमाः । तदा नष्टा जीवनाशं, स्वमन्दिरमुपेयिम ॥५५७॥ १. आश्चर्यद्योतकोऽव्ययः ।