________________
श्रीअजितप्रभुचरितम् सर्गः -२
१७४
प्रातश्च स्वजनौघेन, हर्षाद्विहितमङ्गलः । पुरं प्राणप्रियायुक्तोऽविक्षदक्षतभाग्यभाक् ॥५३८॥
अन्येद्युर्भूभुजा प्रैषि, पुरे दशपुराभिधे । दौत्येऽरिदमनक्षोणीपतेरेष विदां वरः ॥ ५३९ ॥
गतस्तत्र च विज्ञप्तकार्यो धात्रीधवार्पिते । सौधे दिनानि कतिचित्तस्थौ स्थैर्येकमन्दिरम् ॥५४०|| परेद्यवि च मध्याहने, देहद्युज्जितकाञ्चनम् । शमागारं मुनिद्वन्द्वं, सौधप्राप्तमवन्दत ॥ ५४१ ॥ प्रासुकैर्वस्तुभिस्तेन, श्रद्धया प्रतिलाभिते । गते तस्मिन् परं तादृगेवाऽऽगान्मुनियामलम् ॥५४२॥ तथैव सत्कृते भक्त्या, तस्मिन्नपि विनिर्गते । तादृगागात् परं साधुद्वन्द्वं निर्द्वन्द्वसंयमम् ॥ ५४३ ॥ तदपि प्रतिलाभ्योच्चैरेषणीयैर्मनीषिराट् । विममर्श कथङ्कारं, त्रिरायाताविमौ मुनी ॥५४४|| ऋद्धेऽप्यत्र पुरे दानानभिज्ञा: किं समे जनाः ?। यद्वा सदृशसौधालीजातमोहाविहागतौ ॥५४५ ॥ तत: पप्रच्छ वन्दित्वा, युवां पूज्यौ क्व तिष्ठथः । उद्यान इति तावुक्त्वा, ययतुर्यतिपुङ्गवौ ॥५४६॥ रथिधुर्योऽपराह्णेऽथ, गतो मुनिनिनंसया । उद्याने षड् व्यलोकिष्ट, मिथस्तुल्याकृतीन् यतीन् ॥५४७॥
१. 'वमूगजू' इति पु.प्रे. ।