________________
स्त्रीविरसतायामगडदत्तकथा
१७३
रथी यावदपश्यत्तां, दयितां गुरुसम्भ्रमः । तावत् खेटौ तिरोधत्तां, भीतौ प्रत्युपकारतः ॥५२८।। अथो परिजनं सर्वं, विसृज्य रथिकोत्तमः । सप्रियो देवतागारे, प्राविशत् सविधस्थिते ॥५२९॥ सूचीभेद्ये तमःस्तोमे, बिभ्यती चाब्रवीत् प्रियाम् । 'मा भैर्भीरु ! द्रुतं वह्निमुद्द्योतार्थं समानये' ॥५३०॥ उक्त्वेति गत्वा लात्वाऽग्नि, यावदागात् सुरौकसि । विद्युज्जात्कृतिवत्तावत्तत्रोद्योतं निरैक्षत ॥५३१॥ प्रियेऽत्र कथमुद्द्योतः, साशङ्कमिति भाषिते । सस्मितं साऽवदत् 'स्वामिस्त्वत्पाण्यसे(ग्ने)रियं द्युतिः' ॥५३२।। ततस्तस्याः कृपाणं सोऽर्पयित्वा स्वकराम्बुजा[त्] । अवनिन्यस्तजानुः सन्, यावद्धमति पावकम् ॥५३३।। तावद्विकोशो निस्त्रिंशः, सशब्दं तत्करान्तरात् । पुरतः पृथिवीपीठे, महाशनिरिवापतत् ॥५३४॥ सम्भ्रान्तोऽपृच्छदेनां स, स्वभावसरलाशयः । कथं पपात खड्गोऽसौ, कान्ते ! कोशपरिच्युतः ? ॥५३५।। सोचे 'नाथ ! महामोहादधः कोशो मया धृतः । तदेष तरवारिमें, सस्रंसे करकुड्मलात्' ॥५३६।। ततोऽसौ विगताशङ्कः, प्रज्वाल्य ज्वलनं जवात् । रजनीमतिचक्राम, विविधैः सुरतोत्सवैः ॥५३७॥ १. अग्रे ५७१ तमे श्लोके त्वत्करस्थितपावकात् ।