________________
श्रीअजितप्रभुचरितम् सर्गः - २
१७२
अत्रान्तरे सामदत्तां, माधवीवल्लिमण्डपे । प्रेङ्खासक्तां ददंशाऽहिः, कृतान्त इव मूर्त्तिमान् ॥ ५१७||
प्राणेश ! रक्ष रक्षेति, रटन्ती विरसस्वरम् । विषेण ग्लप्यमानाङ्गी, रथिनोऽङ्के पपात सा ॥ ५१८ ।। पाञ्चालिकेव निश्चेष्टा, कष्टां लेभे दशामियम् । द्रागुन्मीलन्महादुःखो, रथिकोऽपि मुमूर्च्छ च ॥५१९।। अवाप्तचेतनो नाना, विलप्य विरहातुरः । एनां परेतां जानानोऽचिन्तयच्चेति चेतसा ॥ ५२०॥ मदर्थं क्षणतस्त्यक्तजननी-तात-बान्धवाम् । विना प्राणप्रियामेनां, जीवितुं मे न युज्यते ॥ ५२१|| सहाऽनया प्रवेक्ष्यामि, तच्चितां ज्वलितानलाम् । ज्ञातव्यतिकरा त्वम्बा, निश्चितं प्रतिषेत्स्यति ॥५२२||
ध्यात्वेति परिवारस्य, यत्नतः प्रतिषेधतः । दीप्ते चितानले यावदुद्विग्नो विशति द्रुतम् ॥५२३॥ तावद्विद्याधराभ्यां खादुत्तीर्णाभ्यां कृपाभरात् । प्रोचे 'भोस्त्रपसे किं न, वनितार्थे त्यजन्नसून् ॥५२४॥ प्रेमपात्रं कलत्रं ते, विधास्यावो विषोज्झितम् । मा मुञ्च जीवितं भद्र !, केयं विषबिभीषिका ? ' ॥५२५॥ इत्युक्त्वा त्रिर्जलेनेमामभिषिच्य सचेतनाम् । तयोरेको व्यधान्मन्त्रमहिमा हि महाद्भुतः ॥ ५२६॥
सुप्तोत्थितेव सोत्तस्थौ, संवृण्वाना वपुर्लताम् । किमिदं किमिदं स्वामिन्निति पेशलगीद्रुतम् ॥५२७॥