SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ स्त्रीविरसतायामगडदत्तकथा मातृभक्तिं वितन्वानो, धिन्वानः स्वजनव्रजम् । कृण्वानो दुर्नयं भूरीन्, वर्षान् सोऽथात्यवाहयत् ॥५०७|| इतश्च माकन्दमञ्जरीस्वादस्वादुकोकिलकूजितः । वासयन् ककुभः पौष्पै, रजोभिर्मधुरापतत् ॥ ५०८|| मलयस्पर्शनस्पर्शोद्दुषिताङ्ग्यो मृगीदृश: । मानेन सह यत्राऽधुर्नीवीबन्धं श्लथं भृशम् ||५०९ ॥ यत्राऽलिनो मृदुपदन्यासाः सुमनसां मधु । धयन्तस्तरुणान् स्त्रीषु, मार्द्दवं किल शासति ॥ ५१० ॥ रोलम्बा यत्र मधुरारावाः स्मरमहीपतेः । गायना इव गायन्ति, त्रिजगज्जित्वरान् गुणान् ॥५११॥ गुरुवद्यत्र सुमन:स्तोमोल्लासिनि सर्वतः । अभव्यजातिवज्जातिर्नैकाऽधात् सुमनःस्थिति[म्] ॥५१२॥ वियुक्तकामिनां यत्र, चन्द्राद्यास्तादृशोऽपि हि । दाहं वितेनिरे मिथ्यादृशामिव जिनोक्तयः ॥ ५१३॥ भूपस्तत्र वसन्तर्त्ती, सावरोधोऽपि खेलितुम् । उद्यानं प्रापदन्येऽपि, नागरा अगडोऽपि च ॥५१४॥ तत्र प्रेखा - गीत-नृत्त - कुसुमावचयादिभिः । लोकाः प्रमुदिताः क्रीडां चक्रुः प्रणयिनीयुजः ॥५१५॥ खेलित्वा सुचिरं क्ष्मापो, ययौ सायं पुरान्तरम् । रथिकोऽप्यात्मसदनं गन्तुं रथमसज्जयत् ॥५१६॥ " १७१
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy