________________
१७०
श्री अजितप्रभुचरितम् सर्गः - २
घ्नतोर्निष्कृपमन्योन्यं कुर्वतोर्घातवञ्चनाम् । जय श्रीकाङ्क्षिणोर्जज्ञे, तयोर्घोरं रणं चिरम् ॥४९६ ॥ अगडोऽचिन्तयच्छक्त्या, न जय्योऽसौ महाबलः । छलादप्यबलेनाऽरिर्बली जेय इति स्थितिः || ४९७|| अथो रथाग्रे व्यामोहहेतोस्तां प्राणवल्लभाम् । न्यास्थन्मदनजीवातुं, जिगीषुः पल्लिनायकम् ॥ ४९८ ॥ पल्लिनाथोऽद्भुताकारां तां प्रति प्रेरयन् दृशम् । तेन च्छलविदाऽघानि, हृदि मर्माविधेषुणा ॥ ४९९ ॥ विशिखेन न ते भिन्नः किन्त्वहं पुष्पधन्वनः । इति ब्रुवंश्च भूपीठे, लुठितो मृत्युमाप सः ||५००। इत्थं साधितदुःसाधो, निराबाधं विशुद्धधीः । अध्वशेषं समुल्लङ्घ्य, प्रापाऽवन्तीं प्रवेतृभूः ॥ ५०१ || यशोमती परिज्ञाय, सवधूकं तनूद्भवम् । समायातं सम्मदाढ्याऽभ्याययौ स्वजनैः सह ||५०२ || भक्तितः प्रणमन्तं च, [तं] विनीतशिरोमणि [म्] । समानन्दयदाशीभिरुद्वेलस्नेहवारिधिः ||५०३ || प्रणमन्तीं सामदत्तामप्याशास्य प्रशस्यधीः । महामहेन तनयं, नगरान्तरवीविशत् ||५०४|| जनन्याः स्वजनानां च, पृच्छतां पुरतोऽखिलम् । यथावृत्तं व्यतिकरमसौ स्वीयमचीकथत् ॥ ५०५ ॥ अन्येद्युः सोपदो नन्तुमायातो मैंदिनीभुजा । ज्ञातवृत्तेन सानन्दं, न्यवेशि स पितुः पदे || ५०६|| १. सोपायनः । २. नृपेण ।