________________
स्त्रीविरसतायामगडदत्तकथा
अध्वानमथ वेगेनाऽतिक्रामन् सुभटोत्तमः । बलवद्गवलाकीर्णां प्रणदद्गवयव्रजाम् ॥४८६ ॥
स्फुरच्छार्दूलदुःशब्दां, भल्लूकरवभीषणाम् । विकटामटवीमाट, रटत्कौशिकसङ्कुलाम् ॥४८७|| युग्मम् ॥
तत्र कल्पान्तसौन्दर्यं, जङ्गमक्ष्माधरप्रभम् । यमदोर्दण्डदेशीयशु [ण्डा ] ताण्डवकारिणम् ॥४८८।।
सरन्तं पुरतो व्यालं, भाण्डागारं भियामिव । शरैः कुम्भव्यधं तन्वन्निरास्थद्वीरशेखरः || ४८९ ॥ युग्मम् ॥
अग्रतः स्फारफूत्कारः, समागच्छन् भुजङ्गमः । अर्द्धचन्द्रेषुणा चक्रे, विशिरा भटचक्रिणा ॥ ४९० ॥
पुरश्च लोललोलस्य, द्वीपिनो भीषणध्वनेः । निनाय पञ्चभिर्बाणैर्व्यात्तं वक्त्रं निषङ्गताम् ॥४९१॥ एवं स्फोरयतो वीरवृत्तिं रथिकजन्मनः । पुरस्ता[द्] दुर्द्धरतरं, पुलिन्दानीकमापतत् ॥४९२॥ रुद्धो विष्वक् शरासारकारिभिर्मलिनात्मभिः । पुलिन्दैरम्बुदैरर्कवन्महस्वी भटोत्तमः ॥४९३॥ एकोऽप्यथ महावीर्यः, पुलिन्दानां पताकिनीम् । समीरवत्तुषश्रेणीं, समन्तादुदडाययत् ॥४९४||
पल्लीशोऽर्जुननामाऽथ, पश्यंस्त्रस्यन्निजं बलम् । उत्साहयन्महोत्साहस्तेन योद्धुमढौकत || ४९५ ॥
१. 'युगदोर्दण्ड' इति पु. प्रे. । २. सेनाम् ।
१६९