SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ स्त्रीविरसतायामगडदत्तकथा अध्वानमथ वेगेनाऽतिक्रामन् सुभटोत्तमः । बलवद्गवलाकीर्णां प्रणदद्गवयव्रजाम् ॥४८६ ॥ स्फुरच्छार्दूलदुःशब्दां, भल्लूकरवभीषणाम् । विकटामटवीमाट, रटत्कौशिकसङ्कुलाम् ॥४८७|| युग्मम् ॥ तत्र कल्पान्तसौन्दर्यं, जङ्गमक्ष्माधरप्रभम् । यमदोर्दण्डदेशीयशु [ण्डा ] ताण्डवकारिणम् ॥४८८।। सरन्तं पुरतो व्यालं, भाण्डागारं भियामिव । शरैः कुम्भव्यधं तन्वन्निरास्थद्वीरशेखरः || ४८९ ॥ युग्मम् ॥ अग्रतः स्फारफूत्कारः, समागच्छन् भुजङ्गमः । अर्द्धचन्द्रेषुणा चक्रे, विशिरा भटचक्रिणा ॥ ४९० ॥ पुरश्च लोललोलस्य, द्वीपिनो भीषणध्वनेः । निनाय पञ्चभिर्बाणैर्व्यात्तं वक्त्रं निषङ्गताम् ॥४९१॥ एवं स्फोरयतो वीरवृत्तिं रथिकजन्मनः । पुरस्ता[द्] दुर्द्धरतरं, पुलिन्दानीकमापतत् ॥४९२॥ रुद्धो विष्वक् शरासारकारिभिर्मलिनात्मभिः । पुलिन्दैरम्बुदैरर्कवन्महस्वी भटोत्तमः ॥४९३॥ एकोऽप्यथ महावीर्यः, पुलिन्दानां पताकिनीम् । समीरवत्तुषश्रेणीं, समन्तादुदडाययत् ॥४९४|| पल्लीशोऽर्जुननामाऽथ, पश्यंस्त्रस्यन्निजं बलम् । उत्साहयन्महोत्साहस्तेन योद्धुमढौकत || ४९५ ॥ १. 'युगदोर्दण्ड' इति पु. प्रे. । २. सेनाम् । १६९
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy