________________
१६८
श्रीअजितप्रभुचरितम् सर्गः-२ उद्यम्याऽसिं ततोऽनात्मविदयं निर्दयाग्रणीः । धावन् स्वसम्मुखं जघ्नेऽगडेन तरवारिणा ॥४७५।। हतो मर्मण्यधर्मात्मा, पतितः पृथिवीतले । सोऽथ प्रोचे 'कृतिन् ! स्तेनो, धनपुञ्जाभिधोऽस्म्यहम् ॥४७६॥ इयत्कालं महासत्त्व !, च्छलितोऽहं न केनचित् । त्वत्प्रेक्षावत्तया त्वद्य, रञ्जितोऽस्मितमां हृदि ॥४७७॥ परासोर्मम दारूणि, देया दाक्षिण्यसुन्दर ! । अन्यच्च शृणु कान्तारेऽमुष्मिन् विष्वग् द्रुमादृते ॥४७८।। उभयोः सरितोर्मध्येऽस्त्युत्तुङ्गं देवतागृहम् । विभागे तस्य पाश्चात्ये, चतुरस्रा शिलाऽस्ति च ॥४७९।। [युग्मम्] तामुत्पाट्य पटुप्रज्ञ !, गच्छेभूमिगृहान्तरम् । ममाऽस्ति प्रेयसी तत्र, स्वापतेयं च पुष्कलम् ॥४८०॥ तत् सर्वं त्वमुपादाय, विधेहि स्वोचितां क्रियाम्' । इत्युक्तवान् परं लोकं, प्राप पाटच्चरः क्षणात् ॥४८१॥ तादृक्षस्याऽथ दत्त्वाऽग्नि, रथी भूमिगृहं गतः । प्रवृत्तः प्रेक्षितुं चौरकान्तां तां स्निग्धया दृशा ॥४८२।। ततः कोपारुणदृशा, नितान्तं सामदत्तया । उपालभ्यत सासूयमसौ सुपरुषाक्षरैः ॥४८३॥ 'त्वत्कृते तत्यजे धृष्ट !, पुरं पुरमिवाऽऽत्मनः । पितरौ बन्धवश्चापि, हा हा त्वं पुनरीदृशः' ॥४८४॥ इति श्रुत्वा दृढीभूतप्रेमभङ्गभयादयम् । अचालीनिळलीकात्मा, त्यक्त्वा तां द्रविणं च तत् ॥४८५।।