________________
स्त्रीविरसतायामगडदत्तकथा
१६७
दीनाराः सन्ति नः सार्थे, बहवोऽपि तवैव ते' । श्रुत्वेति स विदन् सार्थसार्थं प्रमुमुदेतराम् ॥४६४॥ अगडोऽप्यर्थितोऽनुज्ञां, सहयाने तदाऽमुना । निरचैषीद्धियांधाम, क्रूरतां तस्य लक्षणैः ॥४६५॥ आगच्छतु मया स्थेयमप्रमत्तेन वर्त्मनि । इति चिन्तयताऽकृत्याऽनुज्ञातोऽसौ सहाऽचलत् ॥४६६।। समस्तापायरक्षायां, क्षमेण क्षत्रसूनुना । सनाथः स क्रमात् सार्थो, व्यतीयाय बहुं भुवम् ॥४६७।। मध्याह्नेऽथ क्वचित् सान्द्रविविधाऽनोकहाकुले । नदीतटे स्थितं सार्थं, लिङ्गी सप्रश्रयं जगौ ॥४६८।। 'पाकश्रमं जना ! मा स्म, कृढ्वं यन्निकटस्थिते । गोकुलेऽस्मिश्चतुर्मासी, व्यधामेतामहं सुखम् ॥४६९।। मयाऽस्य गोकुलस्येशो, दानधर्मं प्रबोधितः । अध्वगेभ्यो ददात्युच्चैर्भोज्यं दधिपयोऽन्वितम् ॥४७०।। तस्मादुपानयिष्यामि, निमन्त्र्येति' स दम्भिकः । व्रजं गत्वा समादाय, भोज्यं द्रुतमुपाययौ ॥४७१।। रथिकेन कृपाढ्येनाऽसकृद् भ्रूसञया जनाः । निषिद्धा अपि धीशून्यास्तदगृह्णत लोलुपाः ॥४७२॥ रथिकाय ततो दातुं, भोज्यं प्रावर्त्तताऽसकौ । अनेनाऽप्यद्य पर्वाहं ममेत्युक्त्वा न्यषिध्यत ॥४७३॥ अथ सार्थजनान् भोज्यं, तद् भुक्त्वा विषयुग् जवात् । द्रुच्छाये शयितान् मूर्छागतानेषोऽसिनाऽवधीत् ॥४७४॥