________________
१६६
प्रोचे पुनर्नराभ्यां ‘चेदनुजानासि तत्तव । साहाय्यादटवीमेतां, सार्थोऽयमपि लङ्घते ||४५४||
श्रीअजितप्रभुचरितम् सर्ग: - २
अरण्यान्यामिहोन्मत्तो, मातङ्गोऽहिश्च दृग्विषः । पापो द्वीपी तथा स्तेनसेनानीरस्ति दुर्द्धरः ' ॥ ४५५॥
नटप्रष्ठस्ततोऽवादीदकुतोभीतयो जनाः ! । आगच्छन्तु समग्रेभ्यः, प्रत्यूहेभ्योऽस्मि रक्षिता' ||४५६ || ताभ्यां ज्ञापितवृत्तान्तास्ततः सार्थजना अमुम् । अनुजग्मुर्महोत्साहा, विनेया इव सद्गुरुम् ||४५७|| भासितो भंसितेनोच्चैर्जटाजूटविभूषणः । शिष्यैर्वृतस्तदा कश्चिदेको लिङ्गी समापतत् ॥ ४५८ || सार्थलोकान् बभाणाऽसौ, बाढं पेशलया गिरा । ‘तीर्थयात्राकृतमतिर्याताऽस्म्युज्जयिनीं पुरीम् ||४५९।। यद्यनुज्ञा भवेत्तर्हि, सार्थमेतं श्रयामि वः । नैकाकी विकटामीशे, प्रयातुमटवीमिमाम् ॥४६०॥ अनुज्ञातोऽथ तैः कूटदीनारान् दर्शयञ्जगौ । 'देवार्चार्थमिमे दत्ताः, कृतिनैकेन मे पुरा ॥ ४६१ ॥ तन्निरीक्ष्योच्यतां सत्याः, कूटा वाऽमी' ततश्च तैः । अभाणि 'कूटदीनारैः, केनचिद्वञ्चितोऽसि भोः !' ॥४६२॥
तच्छ्रुत्वा ताडयन् वक्ष:, क्रन्दंश्चैष स्फुरत्कृपैः । तैरूचे 'तापसाधीश !, धीरतां ह्यलं शुचा ॥४६३॥
१. भस्मना ।