________________
स्त्रीविरसतायामगडदत्तकथा
१६५
'पुण्यलावण्यतां श्रेष्ठितनयां प्रबलारतिम् । उपेक्षसे किमद्यापि, त्वत्सङ्गैकमनोरथाम्' ॥४४४॥ प्रातर्विशालां यास्यामि, स्वसखीं शशभृन्मुखीम् । प्रगुणीकुरु भद्रे ! द्रागित्युक्त्वा व्यसृजत् स ताम् ॥४४५॥ सामदत्ता सखीवक्त्रात्तच्छ्रुत्वा प्रेयसो वचः । सुधासिक्तेव तत्कालं, परं सम्मदमासदत् ॥४४६।। ततः समग्रसामग्री, निर्मायोन्मुद्ररागभृत् । आयताक्षी समायाता, सदेशमगडस्य सा ॥४४७॥ रथिसूनुरथ प्रेप्सु[र]वन्ती सज्जितायुधः । त्वरापास्तानिले न्यास्थत्तां रथाङ्गस्तनीं रथे ॥४४८।। याम्येष सामदत्तां भो !, अपहृत्य जवादहम् । अहंयुरस्ति यः कश्चित्, सुभटोऽस्त्री पुरोऽस्तु सः ॥४४९।। इति घोषन्नस्खलितः, केनचित् सुभटाग्रणीः । अतिचक्राम कियतीमपि भूमिमपास्तभीः ॥४५०॥ ततश्च सरसि क्वापि, स्थित्वा बन्धुवियोगतः । रुदतीं तां स्फुरच्चाटु, प्रसाध्याऽभोजयत् प्रियाम् ॥४५१॥ ततोऽध्वानं लङ्घमानः, क्वचन ग्रामसीमनि । महान्तं जनसङ्घातं, स्थितमेष निरैक्षत ॥४५२॥ तस्मान्नृयुगलेनैत्य, कुत आगाः ? क्व यास्यसि ? । इति पृष्टोऽथ कौशाम्ब्या, अवन्त्यामित्यवोचत ॥४५३।। १. धनुर्धारी । २. 'रुदन्ती' मिति पु.प्रे. ।