________________
१६४
श्रीअजितप्रभुचरितम् सर्गः-२
माया-ऽनृत-नृशंसत्व-चापल्यजनिभूमिषु । निसर्गादेव विश्वासो, विदुषां स्त्रीषु नोचितः ॥४३३॥ विशेषाच्च द्विषज्जामौ, विनम्भोऽस्यां न युज्यते । सर्पिणी खेदितां बाढमङ्के न्यस्यति नाम कः ? ॥४३४॥ इत्येष स्वप्रतिच्छन्दं, शय्यायां न्यस्य शस्यधीः । तस्या दिदृक्षुश्चरितं, स्वयं दूरेऽवतस्थिवान् ॥४३५॥ न्यस्ताऽस्ति तत्र तल्पोद्धर्वं, तन्मानैका पुरा शिला । सा तया यन्त्रतो मुक्ता, तत्र ध्रुसिति पेतुषी ॥४३६।। सा बुद्धवा चूर्णितममुं, हृष्टाऽभाषिष्ट दुष्टधीः । 'गतोऽसि मामकभ्रातुर्मार्गं मदनगर्दभ !' ॥४३७।। श्रुत्वेति कुपितः सोऽपि, केशेष्वादाय तां जगौ । 'कः प्रौढपौरुषोऽप्युझ्, हन्तुं शक्नोति मामरे !' ॥४३८॥ तां तल्लक्ष्मीमिवादाय, ततो राज्ञः पुरो गतः । समस्तं दास्यवं वृत्तमयमाचष्ट चित्रकृत् ॥४३९।। भूपस्तां स्तेनभगिनीं, भोगिनीं विदधे बुधः । भूमिसद्म वटाधस्तन्नीतश्च रथिसूनुना ॥४४०।। रत्न-स्वर्णादिवस्त्वोघं, तत्र पश्यन् सविस्मयम् । आहूय नागरान् भूपो, यथास्वं सर्वमार्पयत् ।।४४१।। भूमीधवेन पौरैश्च, श्लाघितोत्तमपौरुषः । ततोऽस्थाद् रथिकः पुरू, तत्रैव कतिचिद्दिनान् ॥४४२॥ इतश्च श्रेष्ठिनः पुत्र्या, भृशमातुरया रयात् । सध्रीची प्रहिताऽभ्येत्य, सोपालम्भं तमब्रवीत् ॥४४३॥