________________
१६३
स्त्रीविरसतायामगडदत्तकथा 'तुष्टस्त्वद्विक्रमाच्छिष्ट !, मां जानीहि मलिम्लुचम् । भुजङ्गं नाम लोकानां, भुजङ्गमिव भीषणम् ॥४२२॥ आस्ते भद्र ! श्मशानेऽस्मिन्न्यग्रोधस्य तरोरधः । महद्भूमिगृहं नानालोप्चैः शश्वन्मया भृतम् ॥४२३।। तत्र स्वसाऽस्ति मे साक्षादमरीव भुवं गता । सा शब्दिता भटोत्तंस !, द्वारमुद्घाटयिष्यति ॥४२४॥ सङ्केतार्थममुं चासिं, तस्याः कोविद ! दर्शयेः । ततो हृष्टाऽखिलं द्युम्नं, तव सा कथयिष्यति ॥४२५॥ विवाह्य तां स्वसारं मे, सारं स्वीकृत्य चाद्भुतम् । दारिद्र्यस्य जलं दत्त्वा, विलस स्वेच्छया कृतिन् !' ॥४२६।। एवं जल्पन्नसौ प्राणैर्मुमुचेऽथ नियन्तृभूः । तद्दिष्टवर्मनाऽऽत्तासिर्भूम्योकोद्वारमीयिवान् ॥४२७॥ शब्दे विनिर्मिते द्वारं, सा सुभ्रूरुदघाटयत् । तं च वीक्ष्य कुतः कोऽसाविति बाढं विसिष्मिये ॥४२८॥ खड्गदर्शनतो गूढशोका बाह्यप्रमोदभृत् । सा निनाय ससम्मानं, रथिरं मन्दिरान्तरे ॥४२९॥ मुखात्तस्याऽखिलं भ्रातुर्वृत्तान्तमवबुध्य च । प्रोवाच 'भवदायत्ता, इमे प्राणा इदं धनम् ॥४३०॥ प्राणनाथ ! प्रसद्येमां, शस्यां शय्यामलङ्कुरु । आगच्छामि गृहीत्वाऽहं, भवदर्थं विलेपनम्' ॥४३१॥ इत्युक्त्वा निर्गतायां द्राक्, तस्यां शय्यामधिष्ठितः । अगडो ध्यातवानेवं, शुद्धबुद्धिनिवासभूः ॥४३२॥