________________
श्री अजितप्रभुचरितम् सर्गः - २
१६२
गत्वा स्तेनस्ततोऽधन्यान्, सुप्तान् देवकुले क्वचित् । लोभयित्वा धनेनोच्चैर्भारोद्वाहार्थमानयत् ॥ ४११ ॥ भारमुत्पाट्य तैरेष, नगर्या निर्ययौ बहिः । सध्यङ्ङगडदत्तोऽपि, चेतस्येवं व्यकल्पयत् ॥४१२॥ इदानीं हन्म्यमुं दस्युं, तीव्रेण तरवारिणा । अथवा क्षत्रवंश्यस्य, न मे युक्तश्छलाद्वधः ॥ ४१३॥ अथ चौराग्रणीः पुर्यास्त्यक्त्वा भूमिं दवीयसीम् । तान् सस्नेहमिवाभाणीद्भारिकान् कपटे पटुः ॥ ४१४|| 'अद्यापि बहुला रात्रिर्भारोद्वहनकर्मणा । श्रमातुरा भवन्तस्तच्छेरतां क्षणमेककम्' ||४१५॥ एवं निर्भरविश्वासा, भारवाहा अशेरत । भेजतुश्छद्मनिद्रां तु, धूर्तौ रथिक तस्करौ ॥४१६॥
क्षणान्तरे समुत्थाय, स्रस्तराद्रथिसत्तमः । किञ्चित् काष्ठं निजस्थाने, निधाय परतः स्थितः ॥४१७|| अथैकागारिकः सोऽपि, जवादुत्थाय भारिकान् । विश्वस्तं शयितान् खड्गेनाऽवधीन्निर्घृणावधिः ॥ ४१८॥ सारथेः स्रस्तरेऽथ द्राक्, सम्प्राप्तस्तरवारिणा । काष्ठे दत्त्वा वृथा घातं, विलक्षो यावदस्ति सः ॥४१९॥ तावत् कृपाणमुद्यम्य, सत्क्रोधं तेन हक्कितः । रे रे ! प्राप्तोऽसि कीनाशवक्त्रं विश्वस्तघातक ! ||४२०||
स्मरेष्टां देवतामेवमुक्त्वा तीव्रासिघाततः । पातितः पृथिवीपीठे, कण्ठप्राप्ताऽसुरभ्यधात् ॥४२१॥