________________
स्त्रीविरसतायामगडदत्तकथा
११
इति सञ्चिन्त्य चित्तेनाऽपराह्ने नगराद् बहिः । भ्राम्यन्नेकस्य वृक्षस्य, तले श्रान्तो निषेदिवान् ॥४०१।। इतश्चायातवांस्तत्र, परिव्राट कुण्डिकाकरः । काषायसिचयो मुण्डमस्तक: कत्रिकां वहन् ॥४०२॥ तं विलोक्याऽगडोऽध्यासीन्नियतं परिमोष्यसौ । मुनेः करे कथङ्कारं, कत्रिकासम्भवः किल ॥४०३।। परिव्राट् तं ततोऽवादीद्, 'हंहो भद्र ! कुतो भवान् ? । कथमेकः ? कथं शून्यचेतस्क इव वीक्ष्यसे ?' ॥४०४।। अगडः समयज्ञोऽथ, सत्प्रज्ञोऽजल्पदल्पकम् । 'भगवन् ! पर्यटाम्येष, दौःस्थ्याद् दुःखी यते ततः' ॥४०५।। परोऽवादीदथो 'खेदं, माऽऽत्मचित्ते मुधा विधाः । अद्रवत्तव दारिद्र्यं, यन्मां दद्रष्ठ शिष्टधीः' ॥४०६।। स्मित्वाऽवक् सोऽपि 'लप्स्येऽहं, प्रभो ! त्वत्तः श्रियं ध्रुवम् । कल्पपादपवीक्षा हि, व्यर्थीभवति नाऽङ्गिनाम्' ॥४०७॥ इतश्चास्तं गते भानौ, तमसि प्रसृतेऽभितः । अगडेन समं चौरः, प्रविवेश द्रुतं पुरम् ॥४०८॥ दस्युराडथ कस्याऽपि, धनाढ्यस्य निकेतने । दत्त्वा क्षात्रं रथिभुवाऽवाहयद् द्रविणोच्चयम् ॥४०९॥ रथिकस्तस्करादेशाद्वाहं वाहं महोद्यमः । शून्यौकसि व्यधाच्छैलशृङ्गाभं द्रविणोत्करम् ॥४१०॥ १. चौरः । २. दर्शनम् ।