________________
१६०
श्रीअजितप्रभुचरितम् सर्गः-२ सस्मितं नृपतिः प्रोचे, 'वक्तीदं भद्र ! किं भवान् । नान्यस्य वारके ह्यन्यः, कृतान्तेनापि नीयते' ॥३९०॥ अथ साहसिनां श्रेष्ठोऽगडदत्तोऽवदन्नृप ! । आदेशं देहि तं चौरं, त्वत्पादान्तमुपानये ॥३९१।। दिनसप्तकमध्ये तं, नाहरे चेत् कदाचन । ज्वलिते ज्वलने देव !, तत् पतामि पतङ्गवत्' ॥३९२॥ इत्याधाय दृढां सन्धां, सोत्साहो भूभुजा स्तुतः । विस्मितैर्वीक्षितो लोकैर्निर्ययौ सदसोऽन्तरात् ॥३९३।। अथोद्यान-नदी-कूप-गञ्जा-गीर्वाणसद्मसु । द्यूतस्थानेषु वेशेषु, चत्वरेषु मठेष्वपि ॥३९४॥ वीक्षमाणः परिभ्राम्यंश्चौरचिह्नमनाप्नुवन् । दिवसानतिचक्राम, विक्रमैकधनः स षट् ॥३९५॥ [युग्मम्] सप्तमे दिवसे त्वेवं, दध्यौ नो तस्करः क्वचित् । लेभे न चास्य वार्ताऽपि, समायासीच्छ्रवःपथम् ॥३९६।। तद् व्रजामि विदेशं किं ?, किं वाऽद्मि विषमं विषम् ? | हृत्वा तां कामिनी किं वा, यामि क्वचन दुर्गमे ? ॥३९७|| अयुक्तं कर्तुमेतद्वा, निर्मलान्वयजन्मिनाम् । स्वजिह्वया प्रतिज्ञातो, नार्थः कार्यो मयाऽन्यथा ॥३९८॥ चलेच्चूलाऽपि हेमाद्रेर्गच्छेत् पातालमुळपि । उत्तमानां प्रतिज्ञातं, कल्पान्तेऽपि चलेन च ॥३९९॥ सन्धानिर्वाहसम्भूतकीर्तिगौरा नरोत्तमाः । मृता अपि हि जीवन्ति, जीवन्तोऽपि मृताः परे ॥४००||