________________
स्त्रीविरसतायामगडदत्तकथा
१५९
आराध्य च विशुद्धात्मा, विपन्नोऽत्रैव पुर्यभूत् । हरिषेणमहीशस्य, सोऽङ्गजो गुरुभाग्यभाक् ॥३७९॥ जितशत्रुरिति ख्यातः, सोऽस्म्यहं मेदिनीपतिः । जातजातिस्मृतिर्वीक्ष्य, पुरान्तश्चारिणौ यती ॥३८०॥ तदवाप्तोऽस्मि साम्राज्यं, श्रीभरोद्भासुरं यया । सैवाऽलङ्कुरुते धर्मकलैका मानसं मम ॥३८१॥ कलाः स्युर्तृत्त-गीताद्या, अपि केकि पिकादिषु । तत्ताः स्तुत्याः कथं नाम, सारधर्मकलाविदाम्' ॥३८२॥ एवं सम्भाषमाणोऽस्ति, यावदेनं धराधिपः । तावत् पौराः समाजग्मुर्गुरुप्राभृतपाणयः ॥३८३।। वेत्रिणा ज्ञापिता भूपादेशात्तेऽथ प्रवेशिताः । ढौकितप्राभृता राज्ञा, पृष्टाः कारणमागतेः ॥३८४॥ तेषामेकोऽव[द]द् वाग्मी, 'देव ! पौरांस्तवाऽधुना । दुःखाकरोति सर्वस्वहरणात् कोऽपि तस्करः ॥३८५॥ प्रतापभास्वति माप !, त्वयि सत्यपि दस्युना । प्रालेयेनेव पद्मिन्यो, गतपद्याः प्रजाः कृताः' ॥३८६॥ अथ क्रुद्धो नृपोऽजल्पत्, तलारक्षमरे ! वद । अनाथामिव मुष्णाति, पश्यतस्तव कः पुरीम् ?' ॥३८७।। तलाध्यक्षोऽप्यभाषिष्ट, 'स्वामिस्तस्य ग्रहे कृताः । उपाया विविधाः स्तेनो, न त्वसौ ददृशे क्वचित् ॥३८८॥ तस्याऽहं निग्रहं कर्तुमसमर्थोऽस्मि सर्वथा । ममैव निग्रहं रुष्टः, कुरुतां दस्युवत् प्रभुः' ॥३८९॥