________________
श्री अजितप्रभुचरितम् सर्गः - २
१५८
तस्य देहे सिरावेधादुद्गतेनाऽसृजा शुभम् । संस्नाप्योल्लाघमाश्वेव, विधास्ये कुलदीपकम् ॥३६८|| किशोरोऽपि च पीनाङ्गो, भविता वृष्यसेवया । इति ध्यात्वा सिरां तस्य, मन्त्री दुरुदघाटयत् ॥३६९॥ तद्रक्ते मन्त्रिपुत्रोऽस्नान्नीरुक् च समजायत । सिरा पुनरसृग्वान्ता, व्यरंसीत् संवृताऽपि न ||३७०|| निःशोणितो विपेदेऽश्वस्तज्ज्ञात्वा क्ष्मापतिः क्षणात् । मन्त्रिणः सकुटुम्बस्य, वधमादिक्षदुग्ररुट् ॥३७१॥ क्ष्मापादेशं वितन्वत्सु, भूपभृत्येषु मन्त्रिसूः । क्षिप्रं झम्पां खातिकायां प्रदाय प्रपलायत ॥ ३७२॥ केनाप्यलक्षितो गच्छन्, पुर: स्वत्राणबद्धधीः । पर्णवाटमवापाऽसौ तद्धर्त्रा च निरैक्ष्यत ॥ ३७३ ॥ कोऽसि भद्रेति सोमालगिरा पृष्टोऽमुनाऽखिलम् । स्ववृत्तं दीनवदनो, जगाद सचिवाङ्गभूः || ३७४ ॥ कृपालुना ततस्तेन, नीत्वा स्वगृहमञ्जसा । बन्धु-श्रीभ्रंशसन्तप्त, आश्वास्य स्थाप्यते स्म सः ||३७५||
अन्येद्युस्तद्गृहायातसाधुभ्यां प्रणमन्नौ । विच्छायास्यः सवात्सल्यं, दुःखहेतुमपृच्छ्यत ॥ ३७६ ॥ तेनापि सास्रुणाऽशेषे, स्ववृत्तान्ते निवेदिते । साधुभ्यां धर्म एवैकोऽवादि दुःखामयौषधम् ॥३७७॥ मुनिवाक्यात् परिज्ञाय, सम्यग्धर्मं द्विधा ततः । आनन्दः स्फुरदानन्दः श्राद्धधर्ममशिश्रियत् ||३७८||