________________
स्त्रीविरसतायामगडदत्तकथा
सिंहलीकुक्षिभूस्तस्याऽऽनन्द इत्याख्यया सुतः । यौवने जग्रसे कुष्ठव्याधिना राहुणेन्दुवत् ॥ ३५७॥ तस्याऽत्यन्तपूतिगन्धेः, स्वजनैस्त्यक्तसन्निधेः । मक्षिकौघपरीतस्य, दिना दुःखमया ययुः || ३५८|| जहुस्तमगदङ्काराः, कृतनानोपचारकाः । कञ्चिद् गुणमपश्यन्तः, पिशुनं पण्डिता यथा ॥ ३५९ ॥ कुतोऽपि कार्यतोऽन्येद्युर्यवनद्वीपशासिता । प्रजिघाय निजं दूतं, कौशाम्बीभूधवं प्रति || ३६०|| हरिषेणनृपस्याऽसौ, सदः प्राप्तो महामतिः । सम्प्राप्तगौरवो राजकार्यं सर्वं न्यवेदयत् ॥३६१ ॥ अथोत्थितो गृहं नीत्वा, सच्चक्रे मन्त्रिणा भृशम् । तत्राऽऽविष्टञ्च त्वग्दोषवन्तमानन्दमैक्षत ॥ ३६२|| कोऽयमित्यथ दूतेन, पृष्टोऽमात्योऽश्रुपूर्णदृक् । स्माहा' ऽसौ मे सुतो रोगी, भग्नन्यक्षभिषग्मदः' ॥३६३॥ दूतः कृतिशिरोरत्नं, विज्ञातानेकभेषजः । मन्त्रिभक्तिभराद् बाढं प्रीतचित्तोऽब्रवीदिति ॥ ३६४ ॥ 'असौ जात्यकिशोरस्य, शोणिते विहिताप्लवः । क्षणादुल्लाघतां यायादिति मा संशयं कृथाः ' ॥३६५॥ मन्त्री तन्त्रमिति श्रुत्वा, हृष्टो द्रुतं विसृज्य तम् । अध्यायत् सुष्ट्वयं लब्ध, उपाय: पुत्ररोगहृत् ॥ ३६६॥ राज्ञा ममौकसि प्राणवल्लभः सर्वलक्षणः । एक: किशोरो मुक्तोऽस्ति, विश्वासाद्रक्षितुं पुरा || ३६७ ||
१५७