________________
१५६
श्रीअजितप्रभुचरितम् सर्गः - २
कला अभ्यस्य निखिला, गच्छाम्यात्मपुरे यदा । तदा मया सहाऽऽयातु, भद्रे ! तव सखी द्रुतम् ॥३४६|| भवत्या स्थाप्यतां सुस्था, स्वसखी कतिचिद्दिनान् । धीमतामपि सिध्यन्ति, कार्याण्यौत्सुक्यतो न हि ॥ ३४७ || इत्युक्त्वा कृतसत्कारा, विसृष्टा दूतिका ययौ । स्वयं पुनः कलाशेषमभ्यस्यंस्तस्थिवान् सुखम् ||३४८|| अन्येद्युर्भूपसदसि, गुर्वनुज्ञामवाप्य सः । दर्शयामासिवान् सारं, कलौघं विगतश्रमः ॥ ३४९ ॥ चक्र-मुद्गर-निस्त्रिंश-दण्डाद्यैः श्रममुल्वणम् । तन्वन्नेष सदस्यानां, चिरं चक्रे चमत्कृतिम् ॥३५०॥ तं ते शश्लाघिरे धूतमूर्धानोऽथ मुहुर्मुहुः । पृथ्वीनाथः सुवाङ्मात्रेणापि तुष्टाव तं न हि || ३५१॥ सोऽभ्यधत्त ततो भूपं, 'प्रसादस्तेऽस्तु दूरतः । साधुवादोऽपि नो देव !, मयाऽवापि कुतो वद' ||३५२||
भूपोऽभाषिष्ट 'भो भद्र ! चित्रमात्रफलां तव । वीक्षमाणाः कलां चित्रीयन्ते तत्त्वबहिर्मुखाः || ३५३॥ अस्मादृशास्त्वर्हदुक्ततत्त्वज्ञाः स्तुवते कृतिन् ! । एकां धर्मकलामेव, प्रष्ठां सर्वकलास्वपि ॥३५४॥ आजीविकामात्रकृता, तव किं कलयाऽनया । लोकोत्तरामिहाऽमुत्र, हितदां शृणु मे कलाम् ॥३५५॥
अभूदत्रैव कौशाम्ब्यां, हरिषेणमहीपतेः । सुबुद्धिनामा सद्बुद्धिशेवधिर्मन्त्रिपुङ्गवः ॥३५६॥