________________
स्त्रीविरसतायामगडदत्तकथा
१५५
चन्दनाञ्चितदेहा सा, मृणालीजालमञ्जुला । मुहुर्मुहुर्जलैः सिक्ताऽप्यधिकं तापमासदत् ॥३३७।। वदनेन पराभूतः, शशी तस्यास्त, भृशम् । करैः सन्तापयामास, सम्प्राप्याऽवसरं निजम् ॥३३८।। तया स्मरदशामेवं, दुःसहां समवाप्तया । तं प्रति प्रहिता दूती, गत्वा द्रुतमभाषत ॥३३९।। 'शृणु हे सुभगोत्तंसाऽभ्यर्णैतद्भवनेशितुः । यक्षदत्तगृहपतेः, सामदत्ताभिधा सुता ॥३४०॥ विवाहिताऽत्र पुरे [सा], विरक्ता कुप्रियात्ततः । निरीक्ष्य त्वां दृढं रक्ता, मन्मुखेन वदत्यदः ॥३४१॥ वीरावतंस ! मारेण, दारुणैः सायकैर्दृढम् । हन्यमानामरक्षन् मां, निर्दयेष्वग्रणीरसि ॥३४२॥ तन्मां त्रायस्व त्रायस्व, शरण्य ! शरणागताम् । उपेक्षिता त्ववाप्स्यामि, स्मरस्य दशमी दशाम्' ॥३४३॥ श्रुत्वेति वाचिकं तीव्रानुरागां तां विदन्नपि । अगडो देशकालज्ञो, धीरधीरभ्यधादिदम् ॥३४४॥ 'अहं विशालावास्तव्योऽगडदत्तेति विश्रुतः । कलाभ्यासं कर्तुकाम, इह प्राप्तोऽस्मि सुस्मिते ! ॥३४५॥
१. प्राकृतभाषारचिते वसुदेवहिण्डिग्रन्थे श्रेष्ठिपुत्र्याः ‘सामदत्ता' इति नाम दर्शितम्, अगडदत्तरासमालायां च पीठबन्धान्तर्गते तुलनात्मकसम्प्रेक्षणे पू. तीर्थभद्रविजयगणिना 'श्यामदत्ता' इत्यभिधानं दर्शितम्, वसुदेवहिण्डिग्रन्थस्य गुर्जरानुवादेऽपि तदेव नाम दर्शितम्, अतोऽत्र 'श्यामदत्ता' इति समीचीनमाभाति, एवं सर्वत्र ज्ञेयम् ।