________________
श्रीअजितप्रभुचरितम् सर्गः २
१५४
महोत्साहं गृहारामेऽभ्यस्यन्तं सततं कलाः । देहदीधितिसन्दोहन्यत्कृतोत्तप्तकाञ्चनम् ॥३२६॥
तं समीपस्थसदनवातायनमधिष्ठिता । काऽपि त्रस्तकुरङ्गाभलोचना विन्यभालयत् ॥ ३२७॥ युग्मम् ||
विस्मेरनेत्रराजीवपुटाभ्यां रूपसम्पदम् । तस्याऽऽपिबन्ती युवतिः, साऽऽप तृप्तिं कदापि न ॥ ३२८ ॥ नित्यं तद्रूपपीयूषं धयन्ती निर्निमेषदृक् । अगण्यलावण्यनिधिः, सा जिगाय सुरस्त्रियः ॥ ३२९॥
अमुया लीलया क्षिप्तः, पाणिना पुष्पकन्दुकः । तस्य देहेऽलगत् कामेरितो यन्त्रोपलः किल ॥ ३३०|| इमामगडदत्तोऽपि वीक्ष्य पीनपयोधराम् । शशाङ्कवदनां कामोन्मादिनीं पद्मलोचनाम् ॥३३१॥
चिन्तयामास किमियं, नागकन्याऽथवा सुरी ? | आरामदेवता किं वा ? किन्नरी वाऽथ मानुषी ? ||३३२ ॥ युग्मम् ॥
निमेषकर्मणा प्राज्ञमूर्द्धन्यस्तां च मानुषीम् । निश्चिकाय स्वकीयद्युज्जितचम्पककोरकाम् ||३३३||
अन्वहं दर्शनात्तस्यां प्रादुर्भूतमपि प्रधीः । गूढमेव दधौ रागमसौ स्वगुरुशङ्कया ||३३४ || साऽपि लोक्षणा कामतप्ता विरहविह्वला । न दिने न निशायां च रतिं लेभे मनागपि ॥ ३३५ ॥
मृदुपल्लवसत्क्लृप्तसंस्तरे शयिताऽपि सा । देहे दाहं दधौ तीव्रं, कारीषाग्निगता किल ॥३३६॥