________________
स्त्रीविरसतायामगडदत्तकथा
१५३
प्रसूरूचेऽथ 'वत्सेयं, शेमुषी ते शुभा परम् । खलापूर्णे पुरेऽमुष्मिन्, कस्त्वामध्यापयिष्यति ? ॥३१५॥ कौशाम्ब्यां तु सहाध्यायी, त्वत्तातस्य परः सुहृत् । नाम्ना दृढप्रहारीति, विद्यते तत्र तद् व्रज ॥३१६॥ गणयन् पितृसौहार्द, त्वां पुत्रीयन् पवित्रधीः । स मूर्धन्यः सतां नूनं, यत्नादध्यापयिष्यति' ॥३१७।। ततस्तां जननीवाचं, तथेति प्रतिपद्य सः । प्रस्थितः प्राप्य कौशाम्बी, प्राणसीत् सुहृदं पितुः ॥३१८॥ एनं सोऽपि ससन्मानं, स्वागतप्रश्नपूर्वकम् । कौ[त] स्कुतोऽसि को हेतुरागतेरिति पृष्टवान् ॥३१९।। यथातथं स्ववृत्तान्तं, जल्पता सूतसूनुना । तोषितश्चावदत् प्रीतिप्रकर्षविकसन्मनाः ॥३२०॥ 'त्वं मे नन्दनदेशीयः, सुखं तिष्ठाऽत्र मन्दिरे । चिन्तां कामप्यकुर्वाणः, शिक्षस्व सकलाः कलाः' ॥३२१॥ तथेति प्रतिपन्नोऽसौ, स्थिरात्मा शोभनेऽहनि । विद्या ग्रहीतुमारेभे, सुप्रसन्नाद् गुरोस्ततः ॥३२२॥ कलाः स[कलयामास, सततं स यथा यथा । तथा तथा चन्द्र इव, सर्वेषां मुदमैदिधत् ॥३२३॥ सोऽविध्यच्चलवेध्यानि, शस्त्रीमभ्रमयत्तराम् । वाजिनो वाहयामास, दमयामास च द्विपान् ॥३२४|| अवकाशं न निद्राया, अप्यदत्त स शस्तधीः । अहर्निशं प्रियतमां, विद्यामेवानुकूलयन् ॥३२५॥