SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५२ श्रीअजितप्रभुचरितम् सर्गः-२ कलासु निःसपत्नेन, स[द्]यत्नेनेशसेवने । सत्पौरुषेण पित्रा ते, श्रीरसौ प्रवराऽजिता ॥३०६।। अकाण्डेऽपि स दैवेन, हताशेन हतो हहा ! । भवान् कलासु नाऽद्यापि, विदुरश्च शिशुत्वतः ॥३०७|| पिता ते यदि नाऽकाण्डेऽमरिष्यत्तर्हि सत्कलः । अभविष्यस्ततोऽयास्यत्, कुतस्तस्य पदं रिपौ ॥३०८।। त्वत्तातस्य पदं भूपात्, प्राप्तवन्तं परं पुरः ।। दृक्शल्याभं प्रपश्यन्त्या, बाष्पौघो मे न शाम्यति' ॥३०९।। अथाऽगडोऽपि सङ्क्रान्तमातृदुःखोऽवदत् कृती । 'मातः ! क्वचन कोऽप्यस्ति, मां शिक्षयति यः कलाः ॥३१०॥ अचिरेण कलाः प्राप्य, सवित्रि ! स्वपितुः पदम् । स्वीकरिष्ये न्यक्करिष्ये, विपक्षान् मा स्म खिद्यथाः ॥३११।। जातेन तेन किं स्वाम्बायौवनध्वंसहेतुना । यस्मिन् सत्यपि तातस्य, भूमिरन्यैविलुप्यते ॥३१२।। यदुक्तम्यैर्वृद्धि नीयते वंशो, बन्धुवर्गो धनं यशः । पितुस्त एव पुत्राः स्युर्वैरिणः स्वैरिणः परे ॥३१३॥ न म्लापितान्यखिलधामवतां मुखानि, नास्तं तमो न च कृता भुवनोपकाराः । सूर्यात्मजोऽहमिति केन गुणेन लोकान्, प्रत्याययिष्यसि शने ! शपथैविना त्वम्' ॥३१४|| [वसन्ततिलकावृत्तम्]
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy