________________
१५१
स्त्रीविरसतायामगडदत्तकथा
कन्दः सर्वकलङ्कानां, नृशंसत्वस्य मन्दिरम् । निबन्धनमनर्थानां, छद्मानां बीजमङ्गना ॥ २९५।। स्त्रियो रक्ता विरक्ताश्च नियतं दुःखकारणम् । मुखे विषधरस्य स्याद्विषस्यैव हि सम्भवः ॥ २९६॥ अद्भुतप्रेमपात्राणामपि स्त्रीणां सुदारुणम् । दृष्ट्वा विलसितं प्राज्ञा, बुध्यन्तेऽगडदत्तवत् ॥२९७॥ तथाहि 'भरतक्षेत्रेऽवन्तिदेशविभूषणम् । अवन्तीत्यस्ति पूर्ऋद्ध्या, न्यक्कुर्वाणाऽमरावतीम् ॥२९८॥ तत्र नाम्नाऽजितशत्रुर्भूप: सच्चक्रमोदकः । विनिद्रकमलः स्फूर्जत्प्रतापोऽजनि भानुवत् ॥ २९९ ॥ विक्रमी वाजिशिक्षादिदक्षो युद्धनियुद्धवित् । अमोघरथ इत्यासीत्, क्षत्रियस्तस्य सारथिः ॥ ३००॥ सह पत्न्या यशोमत्या, तस्य वैषयिकं सुखम् I भुञ्जानस्य क्रमाज्जज्ञेऽगडदत्ताभिधः सुतः || ३०१॥ व्यपादि जनकस्तस्य, शिशोरेव विधेर्वशात् । पदं च तस्य भूजानिरन्यस्मै प्रवितीर्णवान् ||३०२|| पतिनाशात् पतिपदस्याऽन्यत्र गमनादपि । दूना दीनाननाऽभीक्ष्णं, विललाप यशोमती ॥ ३०३ ॥ कालेन व्यक्तचैतन्योऽगडदत्तोऽथ मातरम् । क्रन्दन्तीं वीक्ष्य शुग्हेतुमन्यदाऽपृच्छदच्छधीः ॥३०४॥ ततोऽम्बा न्यगदद्वाष्पक्लिन्नभूः सुवदक्षरम् । निर्भाग्या वत्स ! किं वच्मि, यच्छिशोस्ते पिता मृतः || ३०५ ||