SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १५० श्रीअजितप्रभुचरितम् सर्गः - २ भुङ्क्ष्व मा स्म विधा: क्रोधं, रोधं दुष्कर्मणामयम् । तन्वन् समरविजयो, बाढं ते परमः सुहृत् ॥ २८६॥ मैत्रीं विधेहि सत्त्वेषु, प्रमोदं धार्मिकेषु च । दुःखितेषु कृपालुत्वं, माध्यस्थं दुर्जनेषु च ॥२८७॥ भावयन्निति मृत्वाऽसौ, सहस्त्रारे सुरोऽजनि । च्युत्वोत्पद्य विदेहेषु, समवाप्स्यति निर्वृतिम् ॥२८८॥ कीर्तिचन्द्रकथामेतां भवनिर्वेदकारिणीम् । निशम्य धर्ममर्मज्ञाः, कथं मुह्यन्ति बन्धुषु ॥ २८९ ॥ माता- वप्ता- सहजनिकरो, वल्लभा नन्दनाश्च, स्वार्थासक्ता दृढतरमहो, प्रेम ये दर्शयन्ति । किञ्चिद् दृष्ट्वा हृदनभिमतं मत्सरापूर्णचित्ताः, सञ्जायन्ते खलु सुमहतेऽनर्थसार्थाय तेऽपि ॥ २९० ॥ [मन्दाक्रान्तावृत्तम्] बन्धुदुरन्ततायां कीर्त्तिचन्द्र- समरविजयकथा । ग्रं. १२१ अ. ४ , नारीष्वनुत्तरं प्रेम, चिन्तयन्ति विचेतनाः । व्यक्तानपि निरीक्षन्ते, तासां दोषान् पुनर्न हि ॥२९१॥ मदिरायाः स्वसा ज्येष्ठा, तरलाक्षीति निर्णयः । यच्चैतन्यं हरत्याद्या, पानात् दर्शनतोऽपरा ॥ २९२॥ यस्याः कृते न जननीं, न तातं स्वजनान्न च । न जीवितं न विभवं, न जातिं न कुलं तथा ॥२९३॥ गणयन्ति जडात्मानः, साऽपि हेतोः कुतश्चन । विकृता विषवल्लीवाऽनर्थाय स्यान्नितम्बिनी ॥ २९४॥ ॥ युग्मम् ॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy