________________
१४९
बन्धुवैरस्ये कीर्तिचन्द्र-समरविजयकथा अबोधि भगवन् ! युष्मद्वाक्याद्भवविषद्रुमः । बन्धुस्ने[ह] स्फुरन्मूलो, नानादुःखफलोच्चयः ॥२७५॥ मोहितोऽहमियत्कालमज्ञानादमुमाश्रितः । प्रसद्य सद्य उच्छेत्तुं, देहि दीक्षाकुठारिकाम् ॥२७६।। ततोऽयं हरिसिंहाख्यभागिनेयाय सत्वरम् । दत्तराज्यो मुनीन्द्रेण, दीक्षादानात् कृतार्थितः ॥२७७|| नवपूर्वधरस्त्यक्तममत्वः स्वेऽपि वर्मणि । रागद्वेषौ न भेजे स, इष्टानिष्टेषु वस्तुषु ॥२७८॥ पाणिपात्रधरश्चाथ, जिनकल्पं समाश्रितः । रजोहृतिमुखाच्छादमात्रोपकरणान्वितः ॥२७९॥ तपसा शोषयन् गात्रममात्रगुणवारिधिः । एकाकी व्यहरत् सर्वोपसर्गसहनोद्यतः ॥२८०॥ ॥ युग्मम् ।। गतो गजपुरोधानमन्येधुर्मुनिकुञ्जरः । कायोत्सर्गस्थितोऽध्यायद्, ध्यानं भूधरनिश्चलः ॥२८१॥ पापः समरविजयो, दैवाद् भ्राम्यन्निहाऽऽगतः । अनगारं निरीक्ष्याऽमुं, दीप्रक्रोधानलोऽजनि ॥२८२॥ यमजिह्वाकरालेन, करवालेन निर्दयम् । ददौ घातं [स] तस्यर्षेः, कन्धरायां नराधमः ॥२८३॥ वेदनातॊ भृशं मिथ्या, मे दुष्कृतमिति ब्रुवन् । यतिः पपात भूपीठे, छिन्नमूलो यथा तरुः ॥२८४॥ अचिन्तयच्च रे जीव !, यत् परिग्रहमूर्च्छया । व्यधा दुष्कर्म तस्यैतत्, फलशेषमुपस्थितम् ॥२८५॥