SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ श्री अजितप्रभुचरितम् सर्गः २ १४८ ततो धनिन एकस्य, कलत्रत्वमवापतुः । तत्र पुत्रोद्भवश्चासीद्, द्वयोरपि पृथक् पृथक् ॥ २६४॥ मृते पत्यावतीवाऽर्थनिमित्तं कलहोऽजनि । राजाद्यैरपि तद्वादो, न पुनर्निरधार्यत ॥ २६५ ॥ ततोऽन्यदाऽतिरोषेण, शस्त्रैर्युद्ध्वा परस्परम् । मृत्वा षष्ठ्यां नरकोर्व्यामुत्पेदाते ततोऽपि च ॥ २६६ ॥ भूरिजन्मात्ययेऽभूतां सुतौ कस्यापि भूपतेः । तत्रापि तौ राज्यहेतोरयुध्येतां पितुर्मृतौ ॥२६७॥ रौद्रचित्तौ मिथो घातात्, सप्तमं निरयं गतौ । सर्वोत्कृष्टं प्रपूर्याऽऽयुर्भवमभ्रमतां पुनः ||२६८|| ततः परिग्रहस्यार्थे, नानास्थानेषु सन्ततम् । पुनरप्यापदस्ताभ्यां, लेभिरे जीवितान्तदाः ॥२६९॥ स्वयं तु बुभुजे नैव, जातुचित् स परिग्रहः । केवलं कष्टकोटीनां जज्ञेऽयं प्राप्तिकारणम् ॥ २७० ॥ राजन् ! पूर्वभवे कृत्वाऽज्ञानकष्टं तथाविधम् । अभूतं तौ भवेऽत्रापि, युवामेवं सहोदरौ ॥२७१ ॥ प्रद्वेष्टि त्वां कुरङ्गोऽयं, प्राग्भवाभ्यासतस्ततः । अद्यापि चैकदा बाधां, दुर्द्धस्तव विधास्यति ॥ २७२॥ तृतीये सेत्स्यति भवे भवानाराधको नृप ! | , भ्रमिष्यति पुनर्भ्राता, तवाऽनन्तं भवाम्बुधिम् ' ॥ २७३॥ श्रुत्वेति केवलिमुखात्, संवेगं परमं वहन् । भवस्वरूपं भूपालो, ध्यायन्नत्वा व्यजिज्ञपत् ॥ २७४॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy