SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ बन्धुवैरस्ये कीर्तिचन्द्र-समरविजयकथा असुंभध्यानसंयुक्तो, नीरान्मृत्वाऽथ सागरः । तृतीयभुवि सम्भूतो, नारकः परमायुषा ॥२५४॥ कुरङ्गोऽपि क्षणं स्थित्वा, मायाकोलाहलं व्यधात् । मृतकार्यं च विदधे, मोदमानः स्वमानसे || २५५ ॥ ततो यावत् कियद्दूरं गतस्तावदभाग्यतः । तद्यानपात्रं दुर्वातवशात् प्रालीयत द्रुतम् ॥२५६॥ मग्नः परिजनः सर्वो, भाण्डं च निखिलं गतम् । स्वयं तु फलकप्राप्त्याऽम्भोधेस्तुर्येऽह्नि निर्गतः ॥ २५७॥ किञ्चिन्महापुरं प्राप्याऽर्जयिष्यामि घनं धनम् । ततो भोगानहं भोक्ष्ये, इत्यादिस्वविकल्पनैः ॥२५८॥ क्षणं तुष्यन् क्षणं रुष्यन्, क्षणं मूर्च्छन् क्षणं रटन् । परिभ्राम्यन् वने क्वापि दृप्तकेसरिणा हतः ॥ २५९॥ [युग्मम् ] रौद्रध्यानगतो मृत्वा, महापातकपूरित: । १४७ प्राप धूमप्रभामेष, पञ्चमीं नरकावनिम् ॥२६०॥ अथोद्धृत्य नरकतो, नानारूपधराविमौ । भवं भ्रान्त्वाऽञ्जनगिरौ, दैवात् सिंहत्वमागतौ ॥२६१ ॥ तत्राप्येकगुहाकार्ये, मिथो युद्धवा विपद्य च । चतुर्थं नरकं प्राप्तावुद्धृत्याऽऽप्तौ च सर्पताम् ॥२६२॥ तत्राप्येकनिधानार्थे, युद्धवा मृत्वा च नारकौ । पञ्चम्यामवनौ जातौ, ततो भ्रान्तौ भवं बहुम् ॥२६३॥ १. ' काण्डे शरः शुभं क्षेमे, शारः शबलवातयोः । किंशुकश्च शुकश्चाऽपि स्मृतास्तालव्य - दन्त्ययोः ' ॥ इति शब्दप्रभेदे ॥१॥१२८॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy