SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १४६ श्री अजितप्रभुचरितम् सर्गः - २ उष्ट्राऽश्वतर चक्रीवदुक्षगन्त्र्यादिवाहनात् । देशान्तरेभ्यो द्रविणं, स्वीचक्राते श्रमोज्झितौ ॥२४३॥ वहनान्यब्धिमार्गेण, वाहयामासतुः सदा । पट्टकेन च शुल्कादिस्थानानि ललतुर्नृपात् ॥ २४४॥ पोषयामासतुर्दासीस्तुरगीश्चापि सद्मनि । दन्त-चर्म-विषास्त्रादिवणिज्यामपि चक्रतुः ॥ २४५॥ त्यजन्तौ धर्मनामापि, पापादीषदबिभ्यतौ । सन्तोषं प्लोषयन्तौ चाऽनिर्विण्णौ दुःखकोटितः ॥ २४६॥ नानोपायपरौ कोटिमप्यपूरयतां तकौ । रत्नकोट्यर्जने काङ्क्षां धृतवन्तौ ततो हृदि ॥ २४७॥ [ युग्मम् ] अथाऽखिलं धनं पोते स्थापयित्वाऽतिलोभतः । , प्रतस्थाते महोत्साहौ, प्रति रत्नवसुन्धराम् ॥ २४८॥ पाथोधौ वहने तस्मिन्नध्वानं लङ्घयत्यथ । व्यमृश्यत कुरङ्गेण, क्रूरताक्रान्तचेतसा ॥ २४९ ॥ सागरे सागरममुं, क्षिप्त्वा द्रविणभागिनम् । निःसपत्नमिदं सर्वं करोमि धनमात्मसात् ॥२५०॥ बान्धवा धनयुक्तानामपरेऽपि भवन्ति हि । विटाधिका एव पुनर्बन्धवोऽपि धनोज्झिताः ॥ २५१॥ तद्यावन्मद्वदेषोऽपीदृक्षबुद्धिर्न सम्भवेत् । विश्वस्तं तावद् ह्येनं द्राग्, हत्वाऽऽप्नोमि कृतार्थताम् ॥२५२॥ ध्यात्वेत्यसौ लोकदृष्टि, वञ्चयित्वा कुधीधन: । सागरं पोतपर्यन्ते, निविष्टं क्षिप्तवाञ्जले ॥ २५३॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy