________________
१४५
बन्धुवरस्ये कीर्तिचन्द्र-समरविजयकथा यियासितस्य देशस्य, सन्निकर्षं गतौ च तौ । अकस्माच्चाप्तया क्रूरचौरधाट्या प्रमूषितौ ॥२३३।। प्रलापैः करुणैः पाटच्चराणामपि तावथ । चिल्लाविव पयःपूरैर्जनयामासतुः कृपाम् ॥२३४॥ दीनाराणां सहस्रस्य, भाण्डं प्रत्यर्प्य चैतयोः । शेषं सर्वं समादाय, जग्मुस्ते पारिपन्थिकाः ॥२३५।। तावथो धवलपुरं, तेन भाण्डेन संयुतौ । गतावापणमेवं च, गृहीत्वा तत्र तस्थतुः ॥२३६।। वाणिज्यमनयोर्बाद, कुर्वतोश्च कथञ्चन । दीनाराणां सहस्र द्वे, सञ्जाते जातहर्षयोः ॥२३७॥ लाभाल्लोभे परां प्रौढिं, व्रजत्यथ महोद्यमौ । लाक्षानीलीप्रभृत्येतो, गृह्णीतो वस्तु सन्ततम् ॥२३८॥ प्रवर्तेते निष्करुणं, यन्त्रपीडनकर्मणि । वृद्धौ धनं दशैकादशादिवृद्ध्या च यच्छतः ॥२३९॥ कृषीषु क्षेत्रमुख्यानि, दुष्कर्माण्यपराण्यपि । तयोविदधतोरासन्, दीनारा अधिकाधिकाः ॥२४०॥ अधिकाधिकवित्तस्य, लाभात्तावधिकाधिकम् । यतमानौ च दीनारलक्षाशीतिं प्रचक्रतुः ॥२४१॥ दीनारकोटिनिर्माणवाञ्छयाऽथ विडम्बितौ । अकृत्येषु समस्तेषु, प्रावर्तेतामनारतम् ॥२४२॥ १. कलान्तरे, 'व्याज' इति भाषायाम् ।