________________
१४४
श्रीअजितप्रभुचरितम् सर्ग:-२
तौ क्रमाद् व्यक्तचैतन्यावध्यैषातां कलाः कलाः । यौवनस्थौ पितृभ्यां च, सोत्साहं परिणायितौ ॥२२२।। प्रवरं पुरुषार्थेषु, समस्तेष्वर्थमेव तौ ।। मन्वानौ चक्रतुस्तस्याऽर्जने नानामनोरथान् ॥२२३।। परिग्रहग्रहग्रस्तौ, प्राज्योपायपरायणौ । कृत्याकृत्यविभागं तौ, नैवाजगणतां क्वचित् ।।२२४।। कुरङ्गस्तु विशेषेणोत्क्रूरतां कलयन् हृदि । मुग्धानपातयत् पाशे, कुरङ्गानिव लुब्धकः ॥२२५।। कदाचि[द्] दध्यतुरिमौ, देशान्तरगति विना । लभ्यतेऽर्थः कथं नाम, चेतसा परिचिन्तितः ॥२२६।। पुमान् द्रव्यौजसा हीनोऽवज्ञां प्राप्नोति सर्वतः । विध्यातः पावकः पद्भ्यां, किमु नाक्रम्यते जनैः ? ॥२२७।। यस्याऽर्थास्तं श्रयन्ते द्राग्, जनाः स्वादुप्रपञ्चिनः । पूर्णं सरन्ति कासारं, विहङ्गाः सर्वतोऽपि हि ॥२२८॥ अर्थादेव विलीयन्ते, विपदो निखिला अपि । सुसिद्धाद् गारुडान्मन्त्रादिवोदग्रा विषोर्मयः ॥२२९॥ अर्थाच्चेतोमता भोगाः, प्रभवन्ति शरीरिणाम् । कीर्तिः सञ्जायते चार्थाच्छशाङ्ककिरणोज्ज्वला ॥२३०॥ तस्माद्देशान्तरं यावो, द्रव्योपार्जनहेतवे । इति सञ्चिन्त्य पितरावापृच्छेतां जवेन तौ ॥२३१॥ निषेधतोरपि तयोर्भाण्डं चादाय पुष्कलम् । प्रस्थितौ विभवोद्भूतिमनोरथशताकुलौ ॥२३२।।