________________
१४३
बन्धुवरस्ये कीर्तिचन्द्र-समरविजयकथा लोका बभाषिरे 'हन्ताऽनयोः सोदरयोरपि । दृश्यतामन्तरं हस्तिमल्ल वालेययोरिव ॥२११॥ पीयूषात् सारमादाय, विधात्रा सुजना ध्रुवम् । विनिर्मिता जगत्यस्मिन्, कालकूटात्तु दुर्जनाः ॥२१२॥ तान् स्तुमो दुर्जनान् येभ्य, आदरः सत्सु जायते । भवेत् कस्य स्पृहोद्योते, ध्वान्ताभावे हि सर्वथा ? ॥२१३॥ खलः कृतोपकारेऽपि, न स्निह्यति कथञ्चन । दशेद् दुग्धस्य दातारमपि किं न सरीसृपः ? ॥२१४॥ उपकारिणि कुर्वन्ति, जनाः सर्वेऽप्युपक्रियाः । नृरत्नं त्वेष भूमीश, उपकार्यपकारिणि' ॥२१५॥ इति स्तुत्याऽपि लोकस्याऽनुत्सिक्तोऽवनिवासवः । स्मारं स्मारं भ्रातृवृत्तं, संसृतेर्मुहुरुद्विजन् ॥२१६॥ अरज्यन् राज्यसौख्येषु, मुख्यः प्रेक्षावतां दिनान् । निनाय द्वेषहेतुं तं, जिज्ञासुर्गुरुसङ्गमात् ॥२१७|| युग्मम् ॥ प्राप्तः प्रबोधनामाऽथ, केवली भाग्ययोगतः । [रा]ज्ञा गत्वा ववन्दे च, सन्देहध्वान्तभानुमान् ॥२१८॥ देशनारसमापीय, प्रस्तावे पृथिवीभुजा । पृष्टः स्वसोदरक्रौर्यहेतुं मुनिपतिर्जगौ ॥२१९।। 'अस्यैव जम्बुद्वीपस्य, वर्षे विदेहनामके । समस्ति शस्तसदनं, विजयो मङ्गलावती ॥२२०॥ सुगन्धिपुरवास्तव्यस्तत्राऽभून्मदनो वणिक् । तस्यैकः सागरः सूनुः, कुरङ्गाख्यः परः पुनः ॥२२१॥