SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४२ श्रीअजितप्रभुचरितम् सर्गः - २ इति ध्यायन् कृपाण्या द्राग्, दुष्टो घातममुञ्चत । भूपश्चाऽवञ्चयद् दक्षो, बाहौ धृत्वाऽभ्यधाच्च तम् ॥२००|| युग्मम् || 'किमिदं चेष्टितं वत्स !, भवता किंनिमित्तकम् । कोऽपि नाऽस्मत्कुलेऽकार्षीत् कर्मेदृक्षं सुदारुणम् ॥२०१॥ अस्ति प्रयोजनं ते चेद्राज्येन द्रविणेन वा । तत्त्वमेव गृहाणाऽऽशु, प्रतिपत्स्ये त्वहं तपः ' ॥२०२|| एवं सुमधुरं भूपे, वदत्यपि दुराशयः । बाहुं विमोच्य सोऽनश्यद्, द्वेषं निष्कारणं वहन् ॥२०३॥ राजा व्यचिन्तयद्धिग् धिक्, प्राच्यदुष्कर्मचेष्टिता: । यद्वाचापि न वाच्यं तद्धेलयैव प्रकुर्वते ॥ २०४ ॥ इत्थं चलन्ति चेतांसि यत्कृते तेन किं मम । निधानेनेति तत् त्यक्त्वा, निजं प्राप निकेतनम् ॥२०५॥ स तु दुष्टाशयः पुण्यहीनत्वात्तत्र तं निधिम् । अपश्यन् भूमिनाथेन गृहीतं हृद्यमन्यत ॥ २०६ ॥ अथ देशं सोदरस्य, चरटीभूय लुण्टयन् । कदाचन स सामन्तैर्बद्धवाग्राहि नृपान्तिके ॥२०७॥ न्यमन्त्र्यत नरेशेन, राज्यदानाद्दयालुना । चक्रे मिथ्याभुजादर्पोन्मत्तः स त्ववहेलनाम् ॥ २०८ ॥ भुजाबलेन साम्राज्यं, ग्राह्यं दत्तं तु नामुना । इत्याकू[तं] धरन् भूपमन्दिराच्च विनिर्ययौ ॥ २०९ ॥ एवं मुहुर्मुहुर्जातमन्तुतो विधृतोऽपि सः । मोचितो नरनाथेन, राज्येनाऽभ्यर्थितोऽपि च ॥२१०॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy