________________
-
-
बन्धुवरस्ये कीर्तिचन्द्र-समरविजयकथा ततः सोदर-सामन्त-सचिवाद्यैः समन्वितः । कुतूहलाकुलस्तस्याः, सरितस्तटमासदत् ॥१८९॥ केलये चारुरोह द्राक्, सोदरेण समं तरीम् । तरी: पौराः पराश्चान्ये, सामन्ताद्या अशिश्रियन् ॥१९०॥ एवं यदृच्छया तेषु, केलिं कुर्वत्सु हर्षतः । ववर्षोपरि देशेऽब्दः, पूरश्चावर्द्धताऽधिकम् ॥१९१॥ महावेगात् कृष्यमाणास्तेन पूरेण नाविकैः । निपुणैरपि नो नावो, दधिरे कर्मशक्तिवत् ॥१९२।। अथाऽस्याः सरितो मध्ये, तीरे चावस्थितैर्भृशम् । पूत्कृते मिलिता विष्वगातुरा लक्षशो जनाः ॥१९३।। पश्यतामपि लोकानां, नृपस्याऽन्तर्दधे तरीः । योजनान्यतिचक्राम, प्रभूतानि च वेगतः ॥१९४।। लग्ना दीर्घतमालाख्याटव्यां नौः क्वापि शाखिनि । ततस्तीरे समुत्तीर्णः, क्षमानाथः कथञ्चन ॥१९५।। ससोदरः कतिपयैर्जनैर्युक्तः श्रमातुरः । विश्राम्यन् वाहिनीनीरखाततट्या बिलान्तरे ॥१९६।। नृपोऽद्राक्षीन्निधिं द्योतमानं रत्नकरोत्करैः । उत्थाय च परीवारावृतस्तस्यान्तिकं ययौ ॥१९७|| युग्मम् ॥ स्वयं दृष्ट्वा च सस्नेहं, निजभ्रातुरदीदृशत् । सादरं तं निधि क्षोणीपतिः प्राञ्जलमानसः ॥१९८॥ क्रूरः समरविजयो, जातदुष्टमतिस्ततः । नृपं हत्वा निधिममुं, राज्यं च न किमाददे ? ॥१९९।।