________________
१४०
श्रीअजितप्रभुचरितम् सर्गः-२ 'अस्त्याद्यद्वीपभरतभूषणं दूषणोज्झिता । चम्पाभिधा पुरी स्वीयशोभया कम्पिताऽलका ॥१७८॥ पूर्णचन्द्रावदातोद्यत्कीर्तिशुभ्रितविष्टपः । कीर्तिचन्द्राभिधानस्तामपालयदिलापतिः ॥१७९।। जज्ञे समरविजयनामाऽस्य लघुसोदरः । यौवराज्यरमाकेलिपद्मं पद्मसमाननः ॥१८०॥ भुञ्जानयोस्तयोः प्राज्यं, साम्राज्यं प्रीतचित्तयोः । समयः समतीयाय, बहुर्बद्धसुखोदयः ॥१८१।। अन्यदा कुनृपेणेव, ग्रीष्मेण तापितां भुवम् । स्वस्थां विधातुं सम्प्राप्तस्तपात्ययनरेश्वरः ॥१८२॥ यः शक्रचापनिर्यातधाराबाणैवियोगिनाम् । हन्दि भिन्नानि नो वेति, विद्यु[द्]द्योतान्निरैक्षत ॥१८३।। घनाघना यस्य भटा, भक्त्वा ग्रीष्मस्मयं भृशम् । सम्प्राप्तयशसो विश्वे, गर्जन्तः परितोऽभ्रमन् ॥१८४॥ यो महीमात्मसङ्गेन, नवोद्भूतैस्तृणाङ्कुरैः । चकार स्फाररोमाञ्चोदञ्चत्तनुमिवाभितः ॥१८५॥ यत्रोपकारानपेक्षं, ददतो जीवनं घनाः । शिक्षयन्ति जनान् कर्तुं, निनिमित्तामुपक्रियाम् ॥१८६॥ जीमूतो यत्र पान्थानां, गतिरोधाय सर्वतः । व्याजेनाऽम्बुप्रवाहानामाज्ञारेखामिवाऽकृत ॥१८७।। एवं प्रसृत्वरे बाढं, स्तनयित्नुसमागमे । सौधमूर्धस्थितोऽपश्यन्नद्यां पूरं धराधिपः ॥१८८।।