SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ बन्धुवैरस्ये कीर्तिचन्द्र-समरविजयकथा नानाक्लेशगणं विषह्य सततं कृष्यादिभिर्याऽर्ज्यते, कृच्छ्राद् भूप-मलिम्लुचा ऽनल - जलादिभ्यश्च या रक्ष्यते । या बन्धादिनिबन्धनं क्षितितले, साक्षाच्च संवीक्ष्यते, तस्यां कः करिकर्णचापलभृति, प्राज्ञः श्रियां रज्यति ॥ १७० ॥ [शार्दूलविक्रीडितवृत्तम् ] लक्ष्मीदुरन्ततायां श्रीपतिकथा । ग्रं. १२३ अ. १२ 1 श्रीसतत्त्वमिदं प्रोक्तं सतां वैराग्यकारणम् । स्वरूपमथ बन्धूनां, शृणुताऽवहिता जना: ! ॥१७१॥ मातापित्रादिषु प्रेम, चिन्तयन्ति सुनिर्भरम् । न त्वेवं मूढमतयो, विचारं कुर्वते हृदि ॥ १७२।। निरादिकेऽत्र संसारे, भ्राम्यन्तो भवकोटिषु । मातापित्रादितां सर्वेऽप्यङ्गिनो लेभिरे ध्रुवम् ॥१७३॥ सर्वेऽपि प्राप्नुवन्ति स्म, वैरितामप्यनन्तशः । परस्परं ततः कोऽत्र, मातापित्रादिनिर्णयः ? || १७४ | न च निर्मितपापानां, पततां नरकावनौ । मातापित्रादिभिस्त्राणं, जायते देहिनां क्वचित् ॥ १७५ ॥ सर्वेऽपि बन्धवः पूर्वं भूत्वा सत्प्रेमसिन्धवः । किञ्चिन्निबन्धनं प्राप्य, प्रयान्ति विकृतिं क्षणात् ॥१७६॥ अत्रार्थे निजसोदर्यदुश्चेष्टितनिरीक्षणात् । बुद्धस्याऽऽकर्ण्यतां कीर्त्तिचन्द्रभूमिपतेः कथा ॥ १७७॥ १. लक्ष्म्याः स्वरूपम् । -- १३९
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy