________________
१३८
श्रीअजितप्रभुचरितम् सर्गः-२
कदाप्यशिक्षयद्दक्षमुख्यः कश्चन कञ्चन । कुर्यादकार्यं नो धीरस्तच्छ्रीसंहारि यद् भवेत् ॥१५९।। तन्निशम्याऽविमृश्यैव, सहसाऽऽह गुणाकरः । किमकृत्ये कृते याति, श्रीरुड्डीयापि पश्यताम् ॥१६०।। श्रुत्वेति तद्वचो भूरिर्लोकोऽकृत्याद्भियं जहौ । पद्माकरस्त्वशान्मित्र !, किं ब्रूषेऽनर्थदण्डकृत् ॥१६१॥ गुणाकरोऽपि शोचंस्तद्वचः सख्या समं सदा । धर्मकर्मठतां दधे, प्रयतो जीवितावधि ॥१६२॥ अनालोच्य प्रमादेन, तां गिरं स गुणाकरः । मृत्वाऽभूवमहं शुद्धधीस्तु पद्माकरो भवान् ॥१६३।। पश्यतोऽपि ममोड्डीना, तादृग् लक्ष्मीविहायसा । त्वां च भेजे स्फुटं पश्य, विपाकं कर्मणामहो ! ॥१६४॥ एवं श्रुत्वा स्मृतप्राच्यजातिः संवेगमागतः । श्रेष्ठी समृद्धिदत्तोऽस्मात्, साधोव्रतमुपाददे ॥१६५॥ साऽपि च श्रेष्ठिनः पुत्री, कुलस्त्रीणां पतिर्गतिः । निशिश्राय [श्री] जैनेन्द्री, दीक्षामंहःक्षतिक्षमाम् ॥१६६।। चापलेन श्रियस्तेन, साक्षादृष्टेन तौ मुनी । विरक्तौ भवतोऽभूतां, समुद्युक्तौ व्रते भृशम् ॥१६७।। क्रमाद् ध्यानाग्निना दग्धकर्मेन्धनसमुच्चयौ । मुक्तिश्रिया धृतोत्कण्ठं, वृतौ ज्ञानकलाभृतौ ॥१६८।। निशम्य श्रीपतेर्वृत्तमिदमात्महितार्थिनः ।। लक्ष्म्यां मोहं परित्यज्य, रज्यध्वं सत्पथे सदा ॥१६९।।