________________
१३७
लक्ष्मीदुरन्ततायां श्रीपतिकथा महामोहाहिगरलप्रसरध्वस्तचेतनः । कथञ्चन प्रबुद्धोऽस्मि, सिद्धान्तामृतलाभतः ॥१४८॥ अधुनैव कथङ्कारं, कामिनी विषवल्लरीम् । भेजे रिरक्षिषुर्यत्नादहं संयमजीवितम् ॥१४९।। वयसि क्वाप्यनौचित्यं, न तपः प्रचिकीर्षतः । अप्रस्तावोऽमृतस्यापि, पाने किं कोऽपि सम्मतः ॥१५०॥ जलबुद्दसङ्काशे, जीवितेऽत्र सचेतसाम् । धर्महेतोर्वार्द्धकस्य, प्राप्तौ को नाम निर्णयः ? ॥१५१।। भाग्यभाजो जनास्तस्मात्, सन्त्यज्य विषयस्पृहाम् । यतन्तेऽनुत्तरं सौख्यं, लिप्सवस्तपसेऽनिशम्' ॥१५२॥ एवं संवेगसाराणि, तस्य वाक्यानि जल्पतः । अवधिज्ञानमुत्पेदे, क्षयोपशमशालिनः ॥१५३।। अथ ज्ञानान्मुनिस्तस्य, स्वस्य च प्राग्भवं विदन् । इत्यवादीज्ज्ञापयितुं, धर्माधर्मफलं स्फुटम् ॥१५४॥ 'कृतं मनस्तनुभ्यां यत्, फलं तस्य किमुच्यते ? । धर्मद्विष्टं दुरन्तं स्याद्, गिरा कृतमपि ध्रुवम् ॥१५५।। तथाहि श्रीपुरेऽभूतां, पद्माकर-गुणाकरौ । वयस्यौ शस्यकर्माणौ, शान्तचित्तौ स्वभावतः ॥१५६।। तावन्यदा गुरोर्वक्त्राद्धर्ममाकर्ण्य निर्मलम् । प्रबुद्धौ देशविरतिं, भेजाते भवभीरुकौ ॥१५७॥ धर्म्य विशुद्धसम्यक्त्वौ, विदधानावनारतम् । कृशयामासतुः पापसंहतिं तौ कृपापरौ ॥१५८॥