________________
१३६
श्रीअजितप्रभुचरितम् सर्गः-२ पूर्वं वर्षाष्टकात् स्नातुमेकदा मयि सोद्यमे । अकस्मादेव सम्प्राप्तं, नभसा कुण्डिकादिकम् ॥१३७॥ धूपभाजन-घट्याद्यमेतद्रत्नमयं पुनः । मम पूजयितुं देवानिष्ठस्याऽऽप्तं [च] तत्पुरः ॥१३८।। भोजनावसरे चेदं, भाजनादि मनोहरम् । सम्प्राप्तं मां मुनिपतेऽन्यच्चापि द्रविणं बहु ॥१३९।। आरभ्य तद्दिनात् प्राज्यं, विभवं धारयाम्यहम् । तद् ब्रूहि वेत्सि चेत् साधो !, किमिदं प्राज्यचित्रकृत् ॥१४०।। तत[श्च] चरितं स्वीयं, सर्वं साधुर्यवेदयत् । श्रुत्वा श्रेष्ठ्यपि रोमाञ्चोपचिताङ्गोऽब्रवीदिति ॥१४१॥ 'श्रीपते ! तनया जातमात्रेयं तव कल्पिता । मन्मन्दिरे च माद्यन्ति, तवैवैताः समृद्धयः ॥१४२॥ तदेनां तनयां तूर्णं, परिणीय कुरुष्व मे । मनोरथद्रुमं चित्तालवालस्थं फलेग्रहि[म्] ॥१४३।। मधुरे मध्यमेऽमुष्मिन्, वयस्यनुचितं तपः । विहाय विलस स्वैरं, धीमन्नाभिविभूतिभिः ॥१४४॥ अमून् कौतुकिनः कामं, श्यालकान्नर्मभाषितैः । साम्प्रतं प्रीणय प्राज्ञ !, वार्द्धके व्रतमाचरेः' ॥१४५॥ अथ संवेगनिर्वेदबन्धुरां मधुरां गिरम् । श्रीपतिश्चारुचारित्रलसद्रतिरलासयत् ॥१४६।। 'पश्यतामपि यास्तूर्णमपुण्यपवनेरिताः । यान्त्युड्डीय तृणप्रख्याः, श्रियस्ता न हरन्ति माम् ॥१४७।।