SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १३५ लक्ष्मीदुरन्ततायां श्रीपतिकथा श्रेष्ठ्यप्यूचे 'मुने ! दृष्ट्या, दृढं निश्चलया भवान् । बालां वा स्वर्णस्थालादि, वस्तु वेदं निरीक्षते ॥१२६।। कस्मिन्नप्यथवा मृष्टे, भोज्ये ते मनसः स्पृहा । आत्तभिक्षोऽपि यत् स्थैर्यमवलम्ब्याऽवतिष्ठसे' ॥१२७।। साधुरभ्यधित 'ज्ञातजिन[त] त्त्वस्य मे मतिः ।। न सम्मुह्यति बालासु, कीलासु भवजागृवेः ॥१२८॥ स्पृहां कुर्वन्ति किं क्वापि, साधवो मृष्टभोजने । व्रणलेपादिदृष्टान्तर्यात्रामात्रान्नभोजिनः ॥१२९॥ एषोऽर्थसार्थः सौवर्णः, समभूत्तव मन्दिरे । कुतो दिनात् प्रभृत्येतत्, प्रष्टुं तिष्ठामि कौतुकात्' ॥१३०।। श्रेष्ठ्यब्रूत 'पुराणं मे, समस्तमपि वस्त्विदम्' । व्रत्यपृच्छत् ‘कथं भुङ्क्ते, भवान् खण्डितभाजने ?' ॥१३१।। समृद्धिदत्तोऽप्यादत्त, वाचं 'वाचंयमोत्तम ! । योज्यमानं यत्नतोऽपि, स्वर्णं स्थालेऽत्र नाऽलगीत्' ॥१३२।। साधुना स्थालखण्डं तदथाऽऽकृष्य कटीतटात् । तत्रासञ्जितमात्रं द्रागलगीद्विधिवल्गितात् ॥१३३।। अथ विस्मितचित्तेन, श्रेष्ठिना मन्दिरान्मुनिः । निर्गच्छंस्तिष्ठ तिष्ठेति, वदता वन्दितो द्रुतम् ॥१३४॥ अपृच्छ्यत च यत्नेन, किमिदं भगवन्निति । प्रत्नं वस्तु तवेदं तत्, किं ब्रवीमीति सोऽप्यवक् ॥१३५।। आचष्ट श्रेष्ठिराट् 'साधो !, मृषोक्तं क्षम्यतां मम । इदं मदीयं नो वस्तु, शृणु वच्मि यथा तथा ॥१३६॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy