________________
१३४
श्रुत्वेति स प्रवव्राज, निर्व्याजहृदयः कृती । सामाचारीं च साधूनां समस्तां सम्यगग्रहीत् ॥ ११६॥
श्रीअजितप्रभुचरितम् सर्गः:- २
I
त्यक्तसङ्गोऽपि तत् स्वर्णस्थालखण्डं तु सन्निधौ । गुप्तं स बिभरामास, समासन्नमहोदयः ॥११७॥ विविधाभिग्रहग्राही, तप्यमानः परं तपः । अरज्यन् भवभावेषु, नश्वरेषु निसर्गतः ॥ ११८ ॥ स्पृहयन् सततं सिद्धिसौख्या [नि] प्रतिपातिते । देहेऽपि निर्ममश्चारुचारित्रं स यतिर्दधौ ॥ ११९ ॥ युग्मम् ॥
गुरोरनुज्ञयाऽन्येद्युश्चरन्नेकाकिचर्यया ।
उदीच्यमथुरामेष, साधुर्भिक्षाकृतेऽविशत् ॥१२०॥
प्राप्तः समृद्धिदत्तस्य, मन्दिरं लसदिन्दिरम् ।
दम्भोज्झितो धर्मलाभं वदति स्म विदां वरः ॥ १२१ ॥
"
तत्र कांर्त्तस्वरमयैस्तैस्तैर्मणिमनोहरैः ।
आत्मीयैः कुण्डिकापीठभृङ्गारैः कृतमज्जनम् ॥१२२॥
तत्रैव कनकस्थाले स्वीये खण्डित कर्णके । कच्चोलेष्वपि तेष्वेव, सद्यो निर्मि [त] भोजनम् ॥१२३॥
मायूरपिच्छव्यजनप्रष्ठपेशलहस्तया ।
सुतया वीजितं स्फारलावण्यप्लुतगात्रया ॥१२४॥
पश्यन् समृद्धिदत्ताख्यं, श्रेष्ठिनं विस्मयाञ्चितः । लब्धभिक्षोऽपि सुचिरं तस्थिवान् मुनिपुङ्गवः ॥१२५॥ चतुर्भिः कलापकम्॥
१. स्वर्णमयैः ।