SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३४ श्रुत्वेति स प्रवव्राज, निर्व्याजहृदयः कृती । सामाचारीं च साधूनां समस्तां सम्यगग्रहीत् ॥ ११६॥ श्रीअजितप्रभुचरितम् सर्गः:- २ I त्यक्तसङ्गोऽपि तत् स्वर्णस्थालखण्डं तु सन्निधौ । गुप्तं स बिभरामास, समासन्नमहोदयः ॥११७॥ विविधाभिग्रहग्राही, तप्यमानः परं तपः । अरज्यन् भवभावेषु, नश्वरेषु निसर्गतः ॥ ११८ ॥ स्पृहयन् सततं सिद्धिसौख्या [नि] प्रतिपातिते । देहेऽपि निर्ममश्चारुचारित्रं स यतिर्दधौ ॥ ११९ ॥ युग्मम् ॥ गुरोरनुज्ञयाऽन्येद्युश्चरन्नेकाकिचर्यया । उदीच्यमथुरामेष, साधुर्भिक्षाकृतेऽविशत् ॥१२०॥ प्राप्तः समृद्धिदत्तस्य, मन्दिरं लसदिन्दिरम् । दम्भोज्झितो धर्मलाभं वदति स्म विदां वरः ॥ १२१ ॥ " तत्र कांर्त्तस्वरमयैस्तैस्तैर्मणिमनोहरैः । आत्मीयैः कुण्डिकापीठभृङ्गारैः कृतमज्जनम् ॥१२२॥ तत्रैव कनकस्थाले स्वीये खण्डित कर्णके । कच्चोलेष्वपि तेष्वेव, सद्यो निर्मि [त] भोजनम् ॥१२३॥ मायूरपिच्छव्यजनप्रष्ठपेशलहस्तया । सुतया वीजितं स्फारलावण्यप्लुतगात्रया ॥१२४॥ पश्यन् समृद्धिदत्ताख्यं, श्रेष्ठिनं विस्मयाञ्चितः । लब्धभिक्षोऽपि सुचिरं तस्थिवान् मुनिपुङ्गवः ॥१२५॥ चतुर्भिः कलापकम्॥ १. स्वर्णमयैः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy