________________
१३३
लक्ष्मीदुरन्ततायां श्रीपतिकथा इत्यापृच्छयैष जननी, स्थालखण्डं तदन्तिके । कुतूहलाद्धरन् पुर्या, निर्गतोऽध्वनि दध्यिवान् ॥१०५।। चपलाचपलामेतां, श्रियमर्जयितुं मम । मनो नोत्सहते हन्त, का रतिर्दृष्टदूषणे ? ॥१०६॥ केदारमिव लूनान्नं, कासारमिव निर्जलम् । निर्लक्ष्मीकं च मां कश्चिन्न श्रयिष्यति सर्वथा ॥१०७।। तत् किं कार्यं जीवितेन, निर्भाग्यस्य ममेति सः । मुमूर्षुः शैलतः पातात्, सखेदः पुरतोऽचलत् ॥१०८॥ प्रतिमास्थं पुरः साधुमवधिज्ञानधारिणम् । वीक्ष्य चाऽवन्दताऽऽनन्दादुदयच्छुद्धवासनः ॥१०९।। पारयित्वा मुनिरपि, कृपालुः श्रीपतिं जगौ । 'वत्स ! किं लोलतां लक्ष्म्या, दृष्ट्वोद्विग्नोऽसि जीवितात् ॥११०॥ रमा रामाश्च जानीहि, प्रकृत्यैवाऽनवस्थिताः । रक्तान् गुणनिधींश्चापि, त्यजन्त्येताः क्षणेन यत् ॥१११॥ के के कांस्कानुपायान्न, वितन्वन्ति श्रियः कृते । कानि कानि च दुःखानि, न सहन्ते हताशयाः ॥११२॥ तथापि श्रीन तानेति, समेताऽपि कथञ्चन । स्थैर्यमालम्बते नैव, रक्षिताऽपि महादरात् ॥११३॥ तदेतन्मानसे दुःखं, वृथैव भवता धृतम् । न च स्यान्मृत्युना दुःखस्यान्तो दुष्कर्मजन्मनः ॥११४॥ जन्मान्तरेऽपि चेद्भद्र !, दुःखस्यान्तं विधित्सति । तज्जैनी प्रतिपद्यस्व, दीक्षामक्षामसौख्यदाम्' ॥११५।।