________________
१३२
भोजनान्ते स्थालमपि, यावदुड्डीय गच्छति । तावद्दधार हस्तेन, श्रीपतिः स्राग् हठेन तत् ॥९५॥ स्थालस्य [तस्य] यातस्य, बलात् खण्डमवास्थित । त्रुटित्वा श्रीपतेर्देवचेष्टितध्यायिनः करे || ९६ || अथ चित्रीयितस्वान्तः, सदसत्संशयातुरः । पुरातननिधानानि, व्यैक्षताऽसौ समुत्सुकः ॥९७॥ तान्यप्यङ्गारसर्पालिस्वरूपाणि विलोकयन् । अमन्यत स आत्मानं, निष्पुण्यानां धुरि स्थितम् ॥९८॥
श्रीअजितप्रभुचरितम् सर्गः - २
तदा च चिन्तयाऽऽक्रान्तः पुंसा केनाऽप्यभाष्यत । ' त्वत्पित्राऽग्राहि मे द्रव्यलक्षं धीमंस्तदर्पय' ॥ ९९ ॥
"
अथैष दध्यौ मत्पित्रा, लभ्यमेवाऽभवद्धनम् । ननु देयं ततः किञ्चिदिदं दुर्द्देवनाटकम् ॥१००॥ ध्यात्वेत्यूचे च तं 'नास्ति, कोशाध्यक्षोऽत्र साम्प्रतम् । श्वः समेहि यथालेख्यं समस्तं वीक्ष्य दीयते ॥ १०१ ॥
एवमुक्त्वा प्रहित्यैनमवदज्जननीमसौ ।
'मातः ! सर्वाऽपि सद्यः श्रीमं समन्तुमिवाऽमुचत् ॥ १०२ ॥
श्रित्वा मुधोत्तमर्णत्वं, याचन्ते मां धनं जनाः । तदत्राऽहं सुखं स्थातुं न लप्स्ये भाग्यवर्जितः ॥ १०३ || तत्
साम्प्रतं साम्प्रतं मे, गन्तुं देशान्तरे रयात् । स्त्रीति त्वामुत्तमर्णोऽपि, कोऽपि नो याचिता धनम्' ॥१०४॥
१. अधुना । २. योग्यम् ।