________________
१३१
लक्ष्मीदुरन्ततायां श्रीपतिकथा और्ध्वदेहिकमाधाय, विहाय शुचमुल्वणाम् । श्रीपतिं स्थापयन्ति स्म, स्वजनाः स्वपितुः पदे ॥८४|| मनोरथे विवाहस्य, मन्दीभूतेऽथ शोकतः । सर्वेऽपि स्वजनाः स्थानं, प्रयान्ति स्म निजं निजम् ॥८५।। येन सार्धं प्रेमदाढयमिष्टं तस्यैव मृत्युतः । अधात् समृद्धिदत्तोऽपि, मान्द्यमुद्वाहकर्मणि ॥८६॥ अथ भाग्यरवावस्तं, श्रीपतेर्याति सर्वतः । क्रूरैश्चौरैरगृह्यन्त, स्थलमार्गगताः श्रियः ॥८७॥ श्रियोऽनशञ्जलाध्वस्था, बोहित्थब्रुडनादिभिः । भाण्डशालागता ग्रस्ताः, क्षुधितेनेव वह्निना ॥८८॥ अन्येद्युः श्रीपतिहममासनं स्नातुमाश्रितः । पुरः स्फुरत्पयः पूर्णहैमभृङ्गारकुण्डिकम् ॥८९॥ भृङ्गारो रिक्ततां यो यस्तस्य स्नानादशिश्रियत् । उड्डीय नभसाऽयासी[त्], स स पक्षीव वेगतः ॥१०॥ स्नानादनन्तरं तद्वत्, सौवर्णासनकुण्डिके । जग्मतुर्नभसा चित्रं, तन्वत्यौ श्रीपतेर्हदि ॥९१॥ देवान् वन्दितुमायातो, देवापवरकं ततः । दुःस्थागारमिवादर्शच्छून्यं प्रवरवस्तुभिः ॥९२॥ भोक्तुं प्रचक्रमे सोऽथ, खिन्नविस्मितमानसः । सौवर्णे भाजने रत्नकच्चोलावलिशालिनि ॥१३॥ भुञ्जानस्याऽस्य कच्चोलं, यद्यद्रिक्तमभूत्तदा । तत्तदप्यम्बरेणाऽऽशूड्डीनं भाग्यविपर्ययात् ॥९४॥