SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३० श्रीअजितप्रभुचरितम् सर्गः-२ कृत्वा जन्ममहं पुत्र्याः, पुत्रस्येव प्रमोदतः । समृद्धिदत्तोऽशोकस्याऽजिज्ञपत् स्वनरैर्दुतम् ॥७३॥ ततश्चाशोकदत्तोऽपि, दधन्मोदमनुत्तरम् । पुत्रीजन्ममहं स्वौकस्यातनोद् दानलालसः ॥७४॥ अध्यासीच्चाऽनया वध्वा, तनूजो मम भास्यति । कल्पद्रुः कल्पवल्ल्येव, कौमुद्येव सुधारुचिः ॥७५॥ ततस्तौ प्राक्प्रतिज्ञातपुत्रोद्वाहस्पृहां हृदि । सततं दधतौ वर्षान्, पञ्चषान् समतीयतुः ॥७६॥ कार्यमेवैषमः कार्यमेतदित्यात्ममानसे । निश्चित्यैतौ विवाहाय, चक्रतुः सज्जतामथ ॥७७॥ दूरे देशादपि तदा, प्रेष्य मङ्गलपत्रिकाः । आह्वायिताः समाजग्मुः, स्वजनाः सुन्दराशयाः ॥७८।। अत्रान्तरेऽशोकदत्तदेहेऽजनि महाज्वरः । कुर्वाणो दारुणं दाहं, दूतः प्रेतपतेरिव ॥७९॥ उपचारैरुपकारैरिव नीचे विनिर्मितैः । ज्वरेऽस्मिन् कलयामासे, कलयाऽपि गुणो न हि ॥८०॥ पुत्रस्याऽऽवेद्य सर्वस्वं, निर्भीको मृत्युतः कृती । अशोकः शोकतो बन्धून्, सद्विवेको न्यवारयत् ॥८१॥ पर्यन्ताराधनां चाऽऽशु, कृत्वाऽद्रिस्थिरमानसः । विपद्य सुरलोलाक्षीलोचनानन्दकोऽजनि ॥८२।। चक्रन्दुर्बन्धवस्तारस्वरं बाष्पविवर्षणाः । अकाण्डमृत्युशल्येन, तस्याऽतिव्यथिता हृदि ॥८३।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy